2023-02-15 17:22:17 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १९१
अमर्षित इत्यादि - सलिलोर्मिभिः कल्लोलैः । तटावीन् तटस्थान् पर्वतान्
मन्तं प्रत्युदैक्षन्त । अमर्षितमिव '३०५५॥ मृषस्तितिक्षायाम् ॥।२।२०।' इति
कित्त्वप्रतिषेधः पश्चात् नज्समासः । श्रिया हेतुभूतया समग्र संपूर्णम् । युति-
तमिति कर्तरि निष्ठा । यदि वा श्रिया कर्तृभूतया युतितं शोभितम् । यत्रेय-
ध्याहृत्य तमैक्षन्तेति योज्यम् । एवं च कृत्वा '३०५६ । उडुपधात् - ११॥२॥२१॥'
इत्यादिना भावे निष्ठायां विकल्पेन कित्त्वप्रतिषेधात् कित्त्वमुदाहृतम् । मदेनेव
मत्ततयेव । श्रिया हेतुभूतया प्रलोठितं चूर्णितुमारब्धम् । '३०५३। आदिकर्म-
णि-~-।३।४।७१।' निष्ठायामकित्त्वमुदाहृतम् ॥
५३९ - पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वैव स्थितं रुचः ॥
गुम्फित्वे॑व निरस्यन्तं तरङ्गान् सर्वतो मुहुः ॥१०५॥
पूतमित्यादि – नभस्वद्भिर्वायुभिः शीतैः पूनं पवित्रीकृतम् । '३०५०।
पूङश्च ।७।२।५१॥' इति विकल्पेनेट् । अत एव पक्षे पूजः क्त्वानिष्ठयोः कित्त्व-
प्रतिषेधोऽत्र न भवति । तत्र सेडित्यनुवर्तते । रुचो दीप्तीग्रन्थित्वेव संदर्भ्यव
स्थितम् । '३३२४। नोपधात्थफान्तावा ॥१॥२॥२३।' इति कित्त्वप्रतिषेधपक्षे रूप-
म् । सर्वतस्तरङ्गान् गुम्फित्वेव निरस्यन्तं क्षिपन्तम् । नोपधादिति विकल्पेन
कित्त्वप्रतिषेधः । यत्रेत्यध्याहृत्य तमैक्षन्तेति योज्यम् ॥
५४० - वञ्चित्वा ऽयंम्बरं दूरं स्वस्स् ितिष्ठन्तमात्मनि ॥
तृषित्वा ऽनिशं स्वादु पिबन्तं सरितां पयः ॥ १०६॥
वञ्चित्वेत्यादि — स्थित्यनतिक्रमादम्बरं दूरं वञ्चित्वातिक्रम्य । ८३३२५॥
वञ्चिलुच - १॥२।२४॥ ' इति कित्त्वप्रतिषेधः । स्वस्मिन्नात्मनि स्वरूपे तिष्ठन्तम् ।
अत्र '१४०। नश्छव्यप्रशान् ।८।३।७।' इति नकारस्य रुत्वम् । पूर्वस्य त्वनुनासि-
कादेशः । तृषित्वेव तृषित इव भूत्वा । '३३२६ । तृषि-मृषि - ।१।२।२५।' इत्या-
दिना [ कित्त्वविकल्पः । ] प्रतिषेधः । तत्सलिलस्य स्वादुत्वात् । सरितां पयः
स्वादु पिबन्तं अनिशमजस्रम् ॥
५४१ - द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम् ॥
मेरोर् जेतुमि॑िवा ऽऽभोगर्मुच्चैर् दिद्योतिषु मुहुः १०७
.
-
द्युतित्वेत्यादि - शशिना नक्तम् रात्रौ द्युतित्वा दीप्तिमा भूत्वा । रश्मि-
भिः परिवर्धितं वृद्धिं नीतं सन्तं तोयधिं मेरोराभोगं महत्त्वं जेतुमिव मुहुरुचै-
र्दिद्योतिषु चार्धेतुमिच्छुमित्यर्थः । अनेकार्थत्वाद्धातूनाम् । धुतित्वा दिद्योतिषु-
मिति २६१७ । रलो व्युपधात्- ।१।२।२६।' इति कित्त्वाकित्त्वे । तत्र कारो-
१–०७० । नभस्वदूचात - पवन - पवमान प्रभञ्जनाः । २ – ( ५३८ ) श्लोकस्थं टिप्पणं
विलोकनीयम् । ३ – १४७१ । दिवाऽहीत्यथ दोषा च नक्तं च रजनावपि ।' ४–'११८॥
किरणोस्त्रमयूखांऽशुगभस्ति- घृणि रश्मयः । इति सर्वत्र ना० अ० ।