This page has not been fully proofread.

१९० भट्टि काव्ये — द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
६९। ह्रस्वादुङ्गात् । ८।२।२७।' इति सिचो लोपः । मोदयध्वं रघूत्तमं हर्षयत ।
तत्कार्यकरणात् । मा च भयमुपायध्वं सूचयत । भयं मा कार्टेत्यर्थः । २६९५५।
आङो यमहनः ।१।३।२८।' इति तङ् । २६९८ । यमो गन्ध । १३।२।१५।' इति
तङ् । यमो गन्धन इति सिच: कित्चे अनुनासिकलोपः । गन्धनं सूचनम् ।
अन्यथा युष्मासु गन्धितनयेषु नियतमसौ दशाननः सीतामुपायंस्त स्वीकृतवान्
स्यात् । तस्य दुर्वृत्तस्वात् । '२७९०। आशंसायां भूतवञ्च ।३।३।१३२।' इत्यनि-
टाशंसायां लुङ् । '२७२९। उपाद्यमः स्वकरणे ।१।३।५६ ।' इति तङ् । स्वक-
रणं चात्र विवाहनमुक्तम् । '२७३० । विभाषोपयमने ।१।२।१६।' इति अकि-
त्वपक्षे रूपम् ॥
 
५३६ - ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम् ॥
 
सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिपता ऽधिकम् ॥
तत इत्यादि- ततः सम्पातिवचनानन्तरं सर्वे वानरा महेन्द्रं पर्वतं प्रास्थि-
षत प्रस्थितवन्तः । धैर्य चाधिकमाधिपत आहितवन्त आत्मनि । तिष्ठतेर्दधा-
तेश्च '२३८९ । स्था-ध्वोरिन्च ।१।२।१७।' इति कित्त्वमित्त्वं च । तिष्ठतेः '२६८९ ।
समव-ग्र विभ्यः स्थः । १॥३॥२२॥ इति तङ् । किलकिलायन्तः किलकिलाध्वनिं
कुर्वाणा: । '८१ । अव्यक्तानुकरण-।६।१।९८।' इत्यादिना डाच् तदन्तात् । '२६-
६८। लोहितादिडाज्भ्यः क्यप् ।३॥१३।' । '२६६९ । वा क्यपः ।१।३।१०॥
इति परस्मैपदम् ॥
 
N
 
कुलकम् १०३-१०७-
५३७ - निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम् ॥
 
मणि - रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय - धिम् ॥ १०३॥
निकुञ्ज इत्यादि – तस्य पर्वतस्य निकुञ्जे लतादिपिहितस्थाने वर्तित्वा
स्थित्वा । '३३२२। न क्त्वा सेट् । १।२।१८।' इति कित्त्वप्रतिषेधः । परं प्रक्ष्वेदिताः
उच्चैरव्यक्तशब्दं कुर्वाणाः । ८३०५२ । निष्ठा शीङ्- ।१।२।१९।' इति कित्त्वप्र-
तिषेधः । तोयधिं प्रत्युदैक्षन्त दृष्टवन्तः । लङि रूपम् । कीदृशं मणिरत्नाधिशा-
यितम् । '३०८७। कोऽधिकरणे च ।३।४॥७६ ।' इति क्तः पूर्ववकित्त्वप्रतिषेधः ।
मणिर्यदत्तमिति स्त्रीरत्नादावपि रत्नशब्दस्य दृष्टत्वात् एकपदव्यभिचारे विशेष-
णविशेष्यभावः । तस्याधिशयितमवस्थानमित्यर्थः ॥
 
५३८ - अ - मर्षितमि॑िव घ्नन्तं ताऽद्रीन् सलिलो॒र्मभिः ॥
 
श्रिया समग्रं द्युतितं मदेनैव प्रलोठितम् ॥ १०४ ॥
 
१- '३४८ । निकुञ्ज - कुआँ वा कीबे लतादिपिहितोदरे ।" 1 २-२५९॥ भङ्गसू-
तर कर्मिर् वा स्त्रियां वीचिरथोर्मिषु " इति ना० अ० ।