2023-02-15 17:22:16 by ambuda-bot
This page has not been fully proofread.
१८६ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः,
संप्राप्येत्यादि-वानरान् संप्राप्य पक्षी जगाद गढ़ितवान् । के यूयं अद्वि-
मूर्धनि पर्वतशिरसि दुरुपस्थाने दुःखेनोपस्थातुं शक्ये मनसापि किं पुनः शरी-
रेण । '३३०९ । आतो युच्- । ३।३॥२८।' तन्नापि ईषदादयोऽनुवर्तन्ते । कर्तृ-
कर्मणोरिति न स्मर्यते ॥
इति कृदधिकारः ॥
अथ प्रकीर्णकाः ।
इतः प्रकीर्णकश्लोकानाह-
"
५२० - आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम् ॥
समानोदर्यम॑स्माकं जटायुं च स्तुथा ऽऽदरात् ॥८६॥
आत्मन इत्यादि- - आत्मनः परिदेवध्वे शोचथ । '५३४ । देव देवने' इति
भौवादिकः । शसि '३५५ । न संयोगान्तात् । ६।४।१३७ । इत्यल्लोपो न भव-
ति । जटायुं च समानोदर्य भ्रातरमस्माकम् । १६५९। समानोदरे शयित:-
।४।४।१०८।' इति यत् । आदरात् प्रस्तुथ स्तुतिं कुरुथ । जटायुः पुण्यकृढ़ि-
त्यादिना । रामसत्कथां च कुर्वन्तः अतः के यूयमिति ॥
G
५२१ – शङ्का-धंवित्र-वचनं प्रत्यूचुर् वानराः खगम् — ॥,
'वयं शत्रु-लॅवित्रे॒षोर् दूता रामस्य भूपतेः ॥ ८७ ॥
शङ्केत्यादि — धुनोत्यपनयत्यनेनेति धवित्रम् । '३१३५ । अर्ति ऌ-धू–।३।२।-
१८४ ।' इत्यादिना करणे इत्रः । किमयं करिष्यतीति शङ्काधवित्रं वचनं यस्य तं
खगं वानराः प्रत्यूचुः । शत्रुलवित्रा इषवो बाणा यस्य रामस्य भूपतेस्तस्य वयं
दूताः । पूर्ववदित्रं कृत्वा सः ॥
-
५२२ - केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् ॥
हृतां महाकुलीनस्य तस्य लिप्सामहे वयम् ॥ ८८ ॥
के नेत्यादि- - तस्य रामस्य प्रियां केनापि दौष्कुलेयेन हृताम् । दुष्कुलस्या-
पत्यमिति '११६५ । दुष्कुलाइढक् ।४।१।१४२।' कुल्यां कुले साध्वीं '१६५० ।
तत्र साधुः ॥४।४।१८।' इति यत् । माहाकुलीं माहाकुलीनस्येति महाकुलस्याप-
त्यमिति '११६४। महाकुलादञ्-खजौ ।४।१।१४१ ।' इति अञ्खनौ । लिप्सामहे
वयं लब्धुमिच्छामः ॥
५२३ - त्रिंशत्तमम॑हर् यातं मत्वा प्रत्यागमाऽवधिम् ॥
-
अ - कृतार्था विषीदन्तः परलोकमुपास्महे ॥ ८९ ॥
"
१- ५९७। समानोदर्य - सोदर्य - सगर्थ्य-सहजाः समाः ॥ २ – १७२९ । धवित्रं व्यजनं
तद् यद् रचितं मृगचर्मणा ॥ ३–१८९८ दात्रं लवित्र मानन्धो योत्रं योक्रमथो फलम् 19
इति सर्वत्र ना० अ०