This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १८५
५१६ - नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकर्मागतः ॥
 
अ- चेष्टा यदिहा ऽन्यायाद॑नेना scस्यामहे वयम् ८२
नरकस्येत्यादि – अवतीर्यते येन कर्मणेति । '३२९९१ । अवे तृखोज ।
३।३।१२० । ' स एवायं नरकस्यावतारः प्रत्यक्षोऽस्माकमागतः । यद्यस्माद्वयम
चेष्टाः निश्चलाः अनेन पक्षिणा अन्यायादयुक्त्या । नीयते अनेनेति निपूर्वादिणः
'३३०१। अध्याय-न्याय- । ३ ।३।१२२॥ इति निपातनात् घञ् । अत्स्यामहे भक्ष-
यिष्यामहे । कर्मणि लृट् ॥
 
५१७ – हृदया॒दङ्क - संस्थानं कृतान्ता॒ऽऽनाय॑ - सन्निभम् ॥
 
शरीरा॒ऽऽखन-तुण्डऽग्रं प्राप्या- ऽमुं शर्म दुर्लभम् . ८३
हृदयेत्यादि – अमुं पक्षिणं प्राप्य । कीदृशं हृदयोदकसंस्थानम् उदश्यते आ-
कृप्यते अनेनेति उत्पूर्वादञ्चतेः । '३३०२ । उदको अनुदके ।३।३॥२३।' इति धञ्
निपात्यते । हृदयस्योदङ्क: संदंशः तत् संस्थानं तत्सदृशम् । कृतान्तानायसन्नि-
नं यमजालतुल्यम् । तत्प्रविष्टस्य दुःखेन निर्गमत्वात् । '३३०३ । जालमानायः
१३।३।१२४।' इति नयतेराङ्पूर्वात्करणे घञ् निपात्यते । आखन्यते येन तुण्डा-
ग्रेण । खनो वच् । शरीरस्याखनं तादृक् तुण्डाग्रं यस्येति । प्राप्य शर्म सुख
दुर्लभं कृच्छ्रलभ्यम् । '३३०५ । ईषद् । ३।३॥१२६।' इत्यादिना खल् । अत्र कर-
णाधिकरणयोश्चेति निवृत्तम् । '२८३३ । तयोरेव कृत्य-क्त खलर्थाः ।३।४।१०।
इति योज्यम् । '३३०६ । उपसर्गात् खलू-घजोः ।७।१।६७ ।' इति प्राप्तस्य नुमः
'३३०७॥ न सुदुर्भ्याम् ।७।१।६८ ।' इति प्रतिषेधः ॥
 
५१८ - ईपाठ्यङ्करो ऽप्ये॑ष न परत्रा ऽशुभ-क्रियः ॥
 
5
 
अस्मान॑त॒मि॑ितो ऽभ्येति परिग्लानो बुभुक्षया ॥४॥
ईपदित्यादि - य एष अस्मानत्तुमितः प्रदेशादभ्येति आगच्छति स परत्र
परलोके ईषदाड्यङ्करो ऽपि अनाढ्यैरीषदाढ्यो ऽपि न कृतः । अशुभेन कर्मणेत्य-
र्थात् । '३३०८। कर्तृ-कर्मणोश्च भू-कुजोः ।३।३।१२७॥ इति व्यर्थे कर्मोपपदा-
त्करोतेः खल । यतः परिग्लानो बुभुक्षया । यो हि कर्मणा शुभेन ईषदाढ्यङ्करो-
ऽपि न कृतः स कथं न बुभुक्षया पीड्यते । परिग्लायतीति कर्तरि बहुलवचनात्
ल्युट् । निष्टान्तो वा । '३०१७ । संयोगादे:- ।८।२।१३॥ इत्यादिना निष्ठानत्वम् ।
अशुभक्रियः सत्त्वगोहाभिरतत्वात् ॥
 
५१९ - संप्राप्य वानरान् पक्षी जगाद मधुरं वचः ॥
' के यूयं दुरुपस्थाने मनसा ऽप्यंद्रि-मूर्धनि
 
इति कृदधिकारः ।
 
१ – '२७०। आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ।" इति ना० अ०
 
.
 
॥ ८५ ॥