This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः : सर्गः--
कल्याणं मन्वानोऽवगच्छन् उपायान्तराभावात् । चालिसम्भवोऽङ्गदः । योग-
श्चित्तवृत्तिनिरोधः । तं युक्त्वा संबध्य शैले स्थितः । चित्तवेदनां चित्तपीडां विवृ-
ण्वन् । 'घट्टि - विदि- वन्दिभ्यो युज् वक्तव्यः' इति युच् ॥
५०८ - प्रस्कन्दिकार्मिक प्राप्तो
 
ध्यात्वा ब्रूते स्म जाम्बवान् ॥
'धिक् शालभञ्जिका प्रख्यान्
विषयान् कल्पना रुचीन, ॥ ७४ ॥
 
प्रस्कन्दिकामित्यादि- - त्वया का क्रिया कर्तव्येत्यन्तैः पृष्टः सन् जाम्बवान्
ध्यात्वा विचिन्त्य ब्रूते स्म । प्रस्कन्दिकामिव रोगविशेषमिव प्राप्तो यातः उत्सा-
हाभावात्। '३२७५॥ रोगाख्यायां ण्वुल बहुलम् ।३।३।१०८ शालभञ्जिका
क्रीडाविशेषः । '३२८६ । संज्ञायाम् ।३।३।१०९ ।' इति ण्वुल । '७१११' नित्यं
क्रीडा ।२।२।१७।' इत्यादिना सः । तत्प्रख्या विषया रूपादयः अतितुच्छत्वात् ।
अतस्तान् धिक् । किन्तु कल्पनारुचीन् कल्पनीयान् ॥
 
५०९ - यां कारिं राज पुत्रो, ऽयमनुतिष्ठति, तां क्रियाम् ॥
अहम॑प्य॑नु॒तिष्ठामि' सो ऽप्यु॑क्त्वैवमु॑पाविशत् ॥ ७५॥
यामित्यादि — अयं राजपुत्रो ऽङ्गदो यां कारिं क्रियामनुतिष्ठति तां क्रियां
अहमण्यनुतिष्ठामि । '३२८७ । विभाषा ऽऽख्यान - परिप्रश्नयोरिज च ।३।३।११० । '
इति करोतेरिञ् । पक्षे '३२७७ । कृजः श च । ३।३।१०० ।' इति शः । सोऽप्ये-
वमुक्त्वा उपाविशत् अनशनेन स्थितः ॥
 
५१० - उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरान् ॥
 
"
 
'अहं पर्याय - संप्राप्तां कुर्वे प्रायोपवेशिकाम् ॥ ७६ ॥
उवाचेत्यादि – मारुतिर्वानरानुवाच - वृद्धे जाम्बवति संन्यासिनि अनशन -
वति अहमप्यत्र शैले पर्यायेण परिपाट्या संप्राप्तां प्रायोपवेशिकां अनशनं कुर्वे ।
'३२८८ । पर्यायार्हण - ।३।३।१११।' इत्यादिना ण्वुल ॥
५११ - अ - भावे भवतां यो ऽस्मिन्
 
जीवेत् तस्या॑ऽस्त्वं जीवनिः ॥'
इत्यु॑क्त्वा सर्व एव ऽस्थुर्
बा योगाssसनानि ते ॥ ७७ ॥
 
अभाव इत्यादि — अभावे विनाशे भवतां योऽस्मिन् लोके जीवेत् तस्या-
स्त्वजीवनिः धिग्जीवितम् । ३२८९ । आक्रोशे नव्यनिः ।३।३।११२।' एवमुक्त्वा
सर्व एव अस्थुः स्थिताः । तिष्ठतेः '२२२३। गाति-स्था । २।४॥७७॥ इति सिचो
लुक् । बवा योगासनानि विरचय्य पद्मासनादीनि ॥