This page has not been fully proofread.

१८२ भट्टि काव्ये —— द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः,
५०४ -व्रज्या यती निरुद्रा॒ऽक्षान् विद्येवा॑ऽनुष्ठित क्रियान् ॥
निरचित्रमर्दिच्छा तो वानरांश चङ्गमावतः ॥ ७० ॥
व्रजेत्यादि- -सा व्रज्यावती प्रशस्तगमनवती । '३२७५ । व्रज-यजोभावे क्यप्
।३।३।९८१ प्रशंसायां मतुप् । वानरान्निरुद्धाक्षान् निरचिक्रमत् निष्कासितवती ।
क्रमेर्ण्यन्तस्य लुङि '२३१६ । सन्वल्लघुनि – ।७।४।१३।' इति सन्वद्भावात् '२३१७॥
सन्यतः १७॥४॥७९॥ इतीत्वम् । '२३१८ । दीर्घो लवोः ।७।४।९४।' इति न दीर्घत्वं
संयोगपरस्य गुरुत्वात् । अनुष्ठितक्रियानाचरिततदुपदिष्टव्यापारान् । '३२७७१
कृञः श च ।३।३।१०० ।' इति शः । '२७५६ सार्वधातुके यक् ।३।१।६७ । ।
रिङादेशश्च । चङ्क्रमावतः कुटिलगतिमतः । '३२७९ । अः प्रत्ययात् । ३।३।१०२ । '
इत्यकार: । इच्छात इति वानराणामिच्छायाः । '३२७८ । इच्छा ।३।३।१०१।'
इति निपातितम् । इपेः शप् प्रत्ययः छभावश्च निपात्यते । विद्या । '३२७६ । संज्ञा-
याम् । ३।३।९९।' इति क्यप् । यथा विद्या अनुष्टितक्रियान् कृतपुरश्चरणान् पुरु-
पानिच्छातोऽभीष्टं सम्पादयति तद्वत्सेति ॥
 
५०५ - निष्क्रम्य शिक्षया तस्यास् त्रपा-वन्तो रसा-तलात् ॥
ज्ञात्वा मासम॑तिक्रान्तं व्यथाम॑वललम्बिरे. ॥ ७१ ॥
 
निष्क्रम्येत्यादि - तस्याः शिक्षया उपदेशेन ' ३२८०१ गुरोश्च हलः ।३।३।-
१०३ ।' इत्यकारः । तस्मादसातलान्निष्क्रम्य निर्गत्य त्रपावन्तः स्त्रिया उपदेशेन
निष्क्रान्ता वयमिति नपेति । '३२८१ । विद्भिदादिभ्योऽङ् ।३।३।१०४।' मास-
मतिक्रान्तं ज्ञात्वा बहिर्निर्गताः सन्तः व्यथां भयम् । भिदादित्वादङ् । अवलल
म्बिरे वयं मासावधिना प्रेषिताः स च मासो विनैव कार्येणातिक्रान्त इति
स्वामिनो भयम् ॥
 
५०६-चिन्ता-वन्तः कथां चक्रुरुपर्धा-भेद-भीरवः ॥
 
'अ - कृत्वा नृ-पतेः कार्य पूजां लप्स्यामहे कथम्. ७२
चिन्तेत्यादि – उपधानमुपधा परीक्षा । '३२८३ । आतश्लोपसर्गे । ३।३-
१०६ । ' इत्यङ् । तत्परिशुद्धो हि भृत्यः कार्येषु नियुज्यते । तदकरणादुपधाया
भेदोऽभावः तस्माद्भीरवः । चिन्तावन्त इति कर्तव्यतामूढाः कथां चक्रुः कृतवन्तः ।
कीदृशीमित्याह । अकृत्वा नृपतेः कार्य पूजां लप्स्यामहे कथमिति, नैवेत्यर्थः ।
चिन्तादयः । '३२८२ । चिन्ति-पूजि - ।३।३।१०५।' इत्यादिना अङन्ताः ॥
५०७ - प्रायोपासनया शान्ति मन्वानो वालि संभवः ॥
 
युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम् ॥७३॥
प्राय इत्यादि — उपासनेति । '३२८४ । ण्यासश्रन्थो युच् ।३।३॥१०७।'
प्रायेण अविच्छेदेन उपवासेनोपासनया अनशनेनासनमित्यर्थः । तया शान्ति
१- '७८७। मेदोपजापावुपधा धर्मांऽऽधैर्यत्परीक्षणम् ।' इति ना० अ० ।