This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः – १८१
क्रिः ।३।३१८८।' फलैस्तृप्ताः सन्तस्तां स्त्रियं भ्राजथुमतीं शोभावतीम् । पप्रच्छुः
पृष्टवन्तः कस्येयं पूरिति । '३२६७ । द्वितो ऽथुच् ।३।३।८९॥ तदन्तान्मनुप् ॥
५०० - 'रंक्ष्णं करोषि कस्मात् त्वं, यलेना॑ऽऽख्यायतां शुभे ! ॥
स्वप्ने निधि-वदा॑भाति तव संदर्शनं हि नः ॥ ६६ ॥
रक्ष्णमित्यादि – हे शुभे ! कस्माद्वा रक्षणं रक्षां करोषि । एतद्यलेनादरेण
नोऽस्माकमा ख्यायताम् । उभयत्रापि '३२६८। यज-याच - ।३।३।९० । ' इति न ।
यस्मात्स्वप्ने निधिवत् निधिरिव तव संदर्शनमाभाति । नोऽस्माकमतिदुर्लभ
त्वात् । स्वप्न इति '३२६९ । स्वपो नन् ।३।३।९१ । निधिरित '३२७०१ उप-
सर्गे घोः किः । ३।३। ९२ । १ ॥
 
-
 
५०१ ततो जलधि-गम्भीरान् वानरान् प्रत्युवाच सा ॥
 
'इयं दानव-राजस्य पूः सृष्टिर् विश्वकर्मणः ॥ ६७ ॥
 
तत इत्यादि — ततस्तस्मादनन्तरं सा प्रत्युवाच । जलं धीयते अस्मिन्निति
अधिकरणे चेति किः । जलधिः समुद्रः । तद्द्वद्गम्भीरानक्षोभ्यत्वात् । इयं पूः
दानवराजस्य विश्वकर्मणः सृष्टिः । सृज्यत इति सृष्टिः । कर्मणि '३२७२। स्त्रियां
तिन् ।३।३।९४ । ॥
 
इतः स्त्रीलिङ्गमधिकृत्योच्यते-
५०२ - निहतश् च स्थितिं भिन्दन् दानवोऽसौ बल-द्विषा, ॥
दुहिता मेरुसावर्णेरहं नाम्ना स्वयं प्रभा ॥ ६८ ॥
 
निहत इत्यादि — असौ दानवराजः स्थितिं मर्यादां भिन्दन् । '३२७३॥
स्थागा पा-पचो भावे ।३।३।१५॥ इति क्तिन् । बलद्विषा इन्द्रेण निहतः । यस्य
चाहं दुहिता । स पिता । नाम्ना मेरुसावर्णिः, अहं च नाम्ना स्वयंप्रभेति ॥
 
५० ३ - जूँतिमिच्छथ चेत् तूर्णं, कीर्ति वा पातुर्मात्मनः ॥
 
करोमि वो बहिर् - यूतीन्, पिधध्वं पाणिभिर्दृशः ६९'
जूतिमित्यादि — यदि तूर्णं शीघ्रं जूतिं गमनमिच्छथ । कीर्तिं वा आत्मनः पातुं
रक्षितुम् । वः युष्मान् बहिर्यूतीन् बहिर्भूतान् । '३२७४ । ऊति यूति- ।३।३।९७ । '
इत्यादिना निपातितः । तत्र यौतेर्जवतेश्च तिन् दीर्घत्वं च निपात्यते । कीर्तिप
'१७७५॥ कृत संशब्दने' स्वार्थिको णिच् । '२५७१। उपधायाश्च ।७।१।१० ११
इतीत्वं तस्मात् तिन् । अतः पाणिभिः । दृशो दृष्टी: पिधध्वं आच्छादयध्वम् ।
अपिपूर्वाद्धाजो लोटि द्विर्वचने '२५०१ । दूध-स्तथोश्च ।८।२।३८॥ इति अभ्यासस्य
भष्भावे '२४८३ । श्वाभ्यस्तयोः ।६।४।११२।' इत्याकारलोपे '५२। झलां जश् झशि
।८।४।५३१' इति धातोर्दकारे 'वष्टि भागुरि:-' इत्युपसर्गाकारलोपे च रूपम् ॥
१–'११६६' रक्ष्णस् त्राणे, रणः कणे ।' इति ॥ २ – ११९६ । जवने जूतिः सातिः । *
इति सर्वत्र ना० अ० ॥
 
भ० का० १६