This page has not been fully proofread.

१८० भट्टिकाव्ये - द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीय वर्गः,
 
-
 
।३।३।७८।' इत्यन्तःपूर्वाद्धन्तेर धनादेशः, घणादेशो वा ये णकारं पठन्ति । यत्तु
संज्ञीभूतो वाहीकेषु देशविशेष इत्युक्तं तत् संज्ञाशब्दमाश्रित्य । तस्मिन्नन्तरे यत्
सौधसम धवलगृहं तस्य ग्रघणे एकदेशे । '३२५६ । प्रवणः प्रत्राणश्च ।३।३।७९।१
इति निपातितम् । स्त्रियं ललितापधनां ललिताङ्गीमपश्यन् । १३२५९। अपवनो
ऽङ्गम् ।३।३।८१।' इति निपातनम् । लौहोघनघनस्कन्धाः । यस्मिन् स्थापयित्वा
काष्टादीनि संस्क्रियते स उद्धनः तद्दनः स्कन्धो येपामिति । '३२५७॥ उद्-
नोऽत्याधानम् ।३।३।८० । ' इति निपातनम् ॥
 
४९७ - सा स्तम्बघ्न-पद-न्यासान् विघनेन्दु-सम-द्युतिः ॥
 
परिघा॑रु - भुजाना॑ह हसन्ती स्वागतं कपीन् ॥ ६३ ॥
सेत्यादि-
इ-सा स्त्री हसन्ती कपीन् स्वागतं वच आह । कीदृशी । विघनेन्दु-
समद्युतिः । विहन्यते अभिभूयते अन्या सुतिर्येन स विधनः । '३२५९ करणे-
ज्योविद्रुपु ।३।३॥८२ ।' इत्यप् घनादेशश्च । स चेन्दुश्चेति सः । तत्समा सुति
र्यस्याः । स्तम्बो हन्यते येन पादन्यासेन स स्तम्बघ्नः । तृणकाष्ठादिः । ३२६०।
स्तम्बे क च ।३।३॥८३।' इति करणे कः । '२३६३। गम-हन - ६ । १४॥९८४८ इत्यु-
पधालोपः । तादृशः पादन्यासो येषां कपीनामिति । परिहन्यते येन । '३२६१॥
परौ घः । ३।३।८१४।' इत्यप् घादेशश्च । परिवोऽर्गलः । तदनुकारिणो विपुला
बाहवो येषामिति ॥
 
४९८ - पिप्राय ऽद्र गुहोपनांनुद्घान् संघसमागतान् ॥
 
फलैर् नाना-रसैश् चित्रैः स्वादु - शीतैश्च वारिभिः६४
पिप्रायेत्यादि- तान्विविधैः फलैर्वारिभिश्च पिप्राय तर्पितवती । अद्विगुहो-
पघ्नान् । अद्विगुहेव उपघ्न आश्रयो येषां कपीनाम् ' ३२६३। उपन्न आश्रये ।३।-
३३८५ ।' इत्यप् उपधालोपश्च निपात्यते । संघसभागतान् समूहेनागतान् । उद्घान्
प्रशस्तान् । '३२६४। संघोघौ गण- प्रशंसयोः ।३।३।८६ ।' इति समुदोरुपपदयोः
हन्तेरपि टिलोपश्च निपात्यते ॥
 
४९९–निघऽनिघ-तरु-च्छन्ने तस्मिंस् ते लब्धिमैः फलैः ॥
 
तृप्तास् तां भ्राजथु-मर्ती पप्रच्छुः - 'कस्य पूरि॑ियम्.' ६५
निघेत्यादि – तस्मिन्प्रघणे निधानिधैर्निमितानिमितैस्तरुभिश्छन्नैः । '३२६५।
निघो निमितम् ।३।३।८७।' इति निपूर्वाद्धन्तेरपि टिलोपो निपात्यते । समारोहप-
रिरोहाभ्यां निमितमित्युच्यते । ते कपयः । लब्धिमैर्लाभनिर्वृत्तैः । '४२६६। द्वितः
 
१ – ११९३ । स्तम्बघ्नस् तु स्तम्बधनः स्तम्बो येन निहन्यते ॥ २ - ११७६ स्यादु
नो ऽन्तिकाश्रये ॥ । ३ – १४९ मतलिका मचर्चिका प्रकाण्डमुद्धतष्ठजौ । प्रशस्त-
बाचकान्यमूनि ।' इति सर्वत्र ना० अ० ।