This page has not been fully proofread.

१७८ भट्टि- काव्ये - द्वितीचेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 

 
आद्रेणेत्यादि — विपमेष्वपि प्रदेशेषु गर्न गमनं चक्रुः । आदरेणानवज्ञया ।
ग्रहे त्यप् । असङ्घसाः त्यताहाराः । ३२३५। उपसर्गेऽदः ।३।३।५९१ । इत्यपि
'३२३६ । वञपोश्च ।२।७।३८॥ इति अर्घस्लादेशः । हरीन् सिंहान् । सच्यधान्
स॒प्रहारान्। '३२३७॥ व्यव-जपोः - ।३।३।६१।' इत्य । सहारत्वादन्यादान्
परित्यक्ताहारान् कुर्वन्तः । ३२३७ । नौ ण च ।३।३।१०॥ इति निपूर्वादढोऽण्
प्रत्ययः । तस्मिन्नदेर्न घस्लादेशः । चकारादपि तत्र निवसः । दिशो व्यामुवन्तः
सर्वव्यापिनः ॥
 
४९१ - संचेरुः स-हसाः केचिर्द, स्वनाः केचिदा॑दिपुः ॥
 
संग्राम-वन्तो यति चन्, निर्गदानपरे ऽमुचन्. ॥१७॥
संचेरुरित्यादि-सहसा: सस्मिताः । अस्वनास्तूष्णीका: । '३२३९। वन-
इसोर्वा ॥३।३।६२।' इत्यप् । यतिवत् संयामवन्तः नियमवन्तः '३२४० । यमः
समुप-नि- विपु च ।३।३।६३ ।' इति वञ् । आटिपुः अटितवन्तः । अटेर्लुङि रूपम् ।
अपरे निगदान्वचनान्यमुचन् । '३२४१ । नौ गद – ।३।३।६॥' इत्यादिना
विकल्पेनापो विधानात् वञ् ॥
 
४९२- अथं कुमार्द-निःकाणा नराः क्षीण - पण इव ॥
 
अ-मदा: सेदुरैकस्मिन् नितम्बे निखिला गिरेः ॥ ५८ ॥
 
-
 
अथेत्यादि – अथ परिभ्रमणादनन्तरं क्लमेन परिश्रमेण अमदाः गतहर्षाः ।
' ३२४४ । मदो अनुपसर्ग ।३।३।६७।' इत्यप् । अत एव निःकाणा: निश्शब्दाः
' ३२४२ । कणो वीणायां च ।३।३।६५।' इत्यपो विकल्पेन घञ् । वीणादि विषयमे-
तत् । क्वणेर्निपूर्वादनुपसर्गाद्वीणादिविषयाच्च विकल्पेनाप्प्रत्यय इत्युक्तम् । एक-
स्मिन् गिरेर्नितम्बे सेदुः निपण्णाः । निखिला: समस्ता वानराः क्षीणपणा इव
अर्थरहिता नरा इव । पण्यन्त इति पणाः । व्यवहाराय कृते पणे व्यवस्थाप्यन्ते
। '३२४३ । नित्यं पणः परिमाणे ।३।३।६६।' इत्यप् ॥
 
४९३ - ततः स संमदास् तत्र निरक्षन्त पतत्रिणः ॥
 
गुहा-द्वारेण निर्यातः समजेन पशुनिव. ॥ ५९ ॥
 
तत इत्यादि — ततो विश्रामानन्तरं ते तत्र तस्मिन् पर्वते पतत्रिणः पक्षिणो
निरक्षन्त ईक्षितवन्तः । ईङि रूपम् । कीदृशान् । गुहाद्वारेण निर्यातः निर्ग-
१ – ११७० । निगादो निगदे, मादो मद, उद्वेग उद्भमः । २–१९७ । निक्काणो
निक्कणः क्वाणः कणः क्वणनमित्यपि । १९८ वीणायाः क्वणिते प्रादेः प्रकाण: प्रक्कणादयः ।
३ – '१२५३ । पणो द्यूताऽऽदिपूत्सृष्टे भृतौ मूल्ये थनेऽपि च ॥ ४ – '३४४। कटकोऽस्त्री
नितम्बोद्रेः स्नुः प्रस्थ: सानुरस्त्रियाम् ।' ५- '५६२ । पशूनां समजोऽन्येषां समाजोऽथ
सघाणाम् । इति सर्वत्र ना० अ० ॥