This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सीताइन्वेषणं नाम सप्तमः सर्गः-
-
 
५२
 
४८६ - प्राचीं तावद्भिर - व्यग्रः कपिभिर् विनतो ययौ ॥
अ - प्रग्रहैरि॑िर्वाऽऽदि॒त्यो वाजिभिर्-दूर-पातिभिः
प्राचीमित्यादि—कपिभिस्तावद्भिरित्येककोटिसंघातैः
सुग्रीव इत्यर्थात् । अव्यत्रः अनाकुलः । प्राचीं पूर्व दिशं ययौ । यथा आदित्यो
वाजिभिरमग्राहैः मुक्तबन्धनैः करणभूतैः । '३२२८। रश्मौ च ।३।३।५३।' इति
घञ् । दूरपातिभिः दूरयायिभिः ॥
 
सह विनतः प्रणतः ।
 
४८७ - ययुर् विन्ध्यं शरन् - मेघैः प्रावारैः प्रवरैरिव ॥
 
१७७
 
प्रच्छन्नं मारुति - प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः ॥ ५३ ॥
 
-
 
ययुरित्यादि – मारुतिप्रष्ठाः हनुमदग्रेसराः सीतां द्रष्टुं विन्ध्यपर्वतं ययुः ।
शरन्मेवैः प्रावारैरिव प्रच्छन्नम् ' ३२२९। वृणोतेराच्छादने । ३।३।५४।' इति वज् ।
प्रवरैः श्रेष्टेः । अनाच्छादने ग्रहेत्यादिना अप् ॥
 
४८८ - परिभावं मृगेन्द्राणां कुर्वन्तो नर्ग-मूर्धसु ॥
 
विन्ध्ये तिग्मांशु - मार्गस्य चेरुः परिभवोपमे ॥ ५४ ॥
परीत्यादि – मृगेन्द्राणां सिंहानां परिभावमभिभवं कुर्वन्तः । विन्ध्ये चेरुः
भ्रान्ताः । '३२३० । परौ भुवोऽवज्ञाने ।३।३।५५।' इति घञ् । कीदृशे [ तिग्मांशु-
मार्गस्य ] परिभवोपमे । आदित्यमार्गस्य परिभवनम् । अत्युञ्चत्वात् । घञभाव-
पक्षे अप् ॥
 
४८९ - वेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरंतरान् नदान् ॥
 
आशंसवो लवं शत्रोः सीतायाश च विनिश्चयम् ५५
भ्रेमुरित्यादि — उत्पूर्वाच्चिनोतेः '३२३१॥ इरच् ।३।३।५६।' इत्यच् । शिला-
भिरुचयो येषां तान् शिलोच्चयान् । मुः भ्रमणक्रियाया व्याप्यत्वात् सकर्म-
कता । नदान् अतरान् तरितुमशक्यान् उत्तेरुः उत्तीर्णवन्तः । शत्रोलवमुच्छेद-
नम् । सीतायाश्च विनिश्चयं विनिर्णयम् । आशंसवः आशंसनशीला: । '३१४८ ।
सनाशंसभिक्ष उः । ३॥२।१६८।' तरलवौ '३२३२ । ऋोरप् । ३ ।३।५७ ।' इति
अप्रत्ययान्तो विनिश्चयमिति ग्रहे त्यप् ॥
 
४९० - आदरेण गमं चक्रुर्
विषमेष्व॑प्य॑ सङ्घसाः ॥
 
व्याप्नुवन्तो दिशो ऽन्यादान्
कुर्वन्तः स व्यधान् हरीन् ॥ ५६ ॥
 
१–६८१ । द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा ॥ २ – '१२२४/ शैल वृक्षौ
नगावगौ ।' इति ना० अ० ।