This page has not been fully proofread.

१७६ भट्टि-काव्ये — द्वितीयेऽविकार-काण्डे लक्षण-रूपे द्वितीय वर्गः,
४८२ - 'अवैग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः ॥
 
,
 
प्रार्थयध्वं तथा सीतां, यात सुग्रीव-शासनम् ॥ ४८ ॥
अवग्राह इत्यादि – अवग्राहो वर्पप्रतिवन्धः । ८३२२६ अवे ग्रह:-
।३।३१५१॥ इति पक्षे अप् । यथा अवग्राहे कृपीवला वृष्टिं प्रार्थयन्ते तथा
सीतां सूर्य प्रार्थयध्वम् । तस्या दुर्लभत्वादत्यन्तादरणीयत्वाञ्च । यात सुग्रीव-
शासनात् ॥
 
४८३ - वणिक प्रग्रह-वान् यद्वत् काले चरति सिद्धये ॥
 
-
 
देशाsपेक्षास् तथा यूर्य यात ऽऽदार्याऽङ्गुलीयकम्.'
 
वणिगित्यादि — तुला प्रगृह्यते येन सूत्रेण स प्रग्राहः । ' ३२३७॥ प्रे वणि-
जाम् ।३।३।५२।' इति करणे घञ् । स तुलासंबन्धी विद्यते यस्य वणिजः ।
संसर्गे मतुप् । यथा तुलामग्राहवान् तदुपलक्षितो वणिक् काले उचिते क्रय-
सिद्धये चरति तथा यूयं अङ्गुलीयकं तुलासूत्रस्थानीयं चिह्नमादाय देशापेक्षाः
तत्तद्देशस्थितास्तन्त्र हि चिह्वेन रामदूता इति लक्ष्यन्ते ॥
 
४८४ - अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम् ॥
वाजिनः स्यन्दने भानोर् विमुक्त प्रयँहा इव ॥ ५० ॥
 
·
 
अभिज्ञानमित्यादि – ते वानरा नभस्तलमुत्पेतुः । वाजिन इव विमुक्तप्र-
ग्रहाः । विमुक्तः प्रग्रहो नियमरज्जुर्येषामिति । '३२२८१ रश्मौ च । ३।३॥५३॥
इति विभाषाग्रहणमनुवर्तते । घञभावपक्षे '३२३२। ग्रह-वृ-द-निश्चि-गमञ्च
।३।३।५८।' इत्यप् । स्यन्दने रथे भानोरादित्यस्य । किं कृत्वा । अभिज्ञानं गृहीत्वा
चिह्नमङ्गुलीयकमादाय ॥
 
४८५ - उदक् शतवलिं कोट्या, सुषेणं पश्चिमां तथा ॥
 
दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः ॥ ५१ ॥
 
उगित्यादि - वानराणां राजा सुग्रीवः शतवलिं नाम वानरं वानराणां
कोट्या सह उदगुदीचीं दिशं प्रास्थापयत् । तिष्ठतेर्ण्यन्तस्य लङि रूपम् । उदी-
चीशब्दात् प्रथमान्ताद्दिशि वर्तमानादस्तातिः । तस्याञ्चतेर्लुक् । लुक् तद्धितलु-
कीति स्त्रीप्रत्ययस्य लुक् । तस्मिन्निवृत्ते भसंज्ञाभावादीत्वमपि निवर्तते । तसि-
लादिस्तद्धित एधाचपर्यन्त इत्यव्ययत्वे द्वितीयालुकू । तथैव सुषेणं वानरं पश्चिमां
दिशं प्रास्थापयत् । कृतत्वरः त्वरितः ॥
 
१- ९५ । वृष्टिर् वर्षे तद्विघाते ऽवग्राहाऽवग्रहौ समौ ।" २ - ०१४४५ । तुला सूत्रे-
ऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥ ३ – १ (४८३) लोकस्थं टीकनं प्रेक्ष्यम्' इति ना० अ० ।