This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १७३
४७१ - उन्नांयानंधिगच्छन्तः प्रद्रावैर् वसुधा-भृताम् ॥
 
वऽभिलावान् कुर्वन्तः स्वेच्छया चारु - विक्रमाः ३७
उन्नायानित्यादि – वसुधाभृतां पर्वतानां उन्नायानुच्चयानुच्चत्वान्यधिग-
च्छन्तः जानन्तः। '३१९७। अवोदोर्नियः । ३।३।२६।' इति भावे घञ् । कैः । प्रद्वावैः
प्रकृष्टगतिभिः । '३१९८ । द्रु-स्तु-स्रुवः । ३।३॥२७।' इति धन् । वनाभिलावान्
वनविध्वंसान् । '३१९९। निरभ्योः पू-ल्वोः ।३।३।२८॥ इति भावे घञ् । स्वेच्छया
कुर्वन्तः । चारुविक्रसा: असाधारणपराक्रमाः । यात यूयमिति संबन्धः ॥
४७२ - सोद्गार-सुगन्धीनां फलानार्मलमशिताः ॥
 
प्रे
 
उत्कारेषु च धान्यानाम॑नभीष्ट परिग्रहाः ॥ ३८ ॥
 
सदेत्यादि – सदा सर्वदा उद्वारे भक्षणानन्तरं श्वसनपूर्वके शब्दोच्चारणे
यानि सुगन्धीनि तेषामलं पर्याप्तमाशिताः । '१५९५ । 'गृ शब्दे' इत्यस्यादुत्पू-
र्वात् ' ३२०० । उन्योः । ३।३।२९।' इति घञ् । आङ्पूर्वादश्नोतेः । '३०५३॥
आदिकर्मणि क्तः कर्तरि च ।३/४/७११' इति कर्तरि क्तः । कृत्प्रयोगे कर्मणि षष्ठी
न लोकेति निषिद्धाऽतः शेषे पष्ठी । उत्कारेषु च राशिपु धान्यानाम् । '१५०३।
विक्षेपे' इत्यस्मादुत्पूर्वात् '३०२१ । कृ धान्ये ।३।३।२०॥ इति कर्मणि घन् ।
अभीष्टपरिग्रहाः अनभिलापुका इत्यर्थः ॥
 
४७३ - संस्तावमि॑िव शृण्वन्तश् छन्दोगानां महाध्वरे ॥
 
शितिं मधु-लेहानां पुष्प प्रस्तार-शायिनाम् ॥ ३९ ॥
 
संस्तावमित्यादि – मधुलेहानां भ्रमराणां पुष्पप्रस्तारशायिनाम् । '३२०३
प्रेोऽयज्ञे । ३॥३॥३२।' इति वञ् । शिञ्जितं शृण्वन्तः यूयं यात । छन्दोगानां
महाध्वरे संस्तावमिव सम्भूय स्तवनमिव पाठध्वनिविशेषमिव वा । '३२०२॥
यज्ञे समि स्तुवः ।३।३।३१॥ इति धज् ॥
 
४७४ - आलोचयन्तो विस्तारम॑म्भस दक्षिणो॒दधेः ॥
 
स्वादयन्तः फल-रसं मुष्टि-संग्राह- पीडितम् ॥ ४० ॥
 
१ - (४७०) लोकस्थं टीकनमवलोक्यम् । २ - ( ४६९ ) श्लोकस्थं टिप्पणमालोचनी-
यम् ।
३- '२१८२ लवोऽभिलावो लवने निष्पावः पवने पवः' । ४ - (४७०)
श्लोकस्थं टीकनं प्रेक्ष्यम् । ५– ११९४ । उत्कारशू च निकारश् च द्वौ धान्योत्क्षेप-
प्रार्थको' । ६ – १९७॥ अथ मर्मरः । स्वनिते वस्त्र पर्णानां भूषणानां तु शिक्षितम्'
इति सर्वत्र ना० अ० ॥