This page has not been fully proofread.

१७२ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः,
अतः परं सादे कर्तरि च कारक इत्यधिकृत्य कुटुच्यते--
४६८ -- ततः कपि- समाहारमैऽकनिश्चयमागतम् ॥
उपाध्यायsइर्वाऽऽयामं मुग्रीवोऽध्यापिपद् दिशाम् ३४
 
तत इत्यादि- - ततः कपिसमागमानन्तरं सुग्रीवः कपिसमाहारं कपिस-
मूहं दिशामायाममध्यापिपत् बोधितवान् । अमुका अमुका दिक् इदशीति ।
८५४०॥ गतिबुद्धि –।१॥४॥५२॥ इत्यादिना समाहारस्य कर्मसंज्ञा । आयामपरि-
ज्ञानं चास्य वालि भयाद्दूरपरिभ्रमणात् । एकनिश्चयमागतं एकरा शितां प्राप्तं आया-
ममित्यर्थः । निश्चायमिति '३३९० । परिमाणाख्यायाम् ।३।३।२०।' इति धज् ।
पश्चादेवशब्देन '७२६ । पूर्वकालैक- ।२।१।४९।' इति सः । क इव । उपाध्याय
इवेति । उपेत्याधीयते अस्मादिति '३१९१ । इङश्च ।३।३।२१।' इति घञ् ॥
४६९ - स - जाऽम्भो-द-संरावं हनु- मन्तं सहाऽङ्गदम् ॥
 
जाम्बवं नील-सहितं चारु- सैन्द्रावर्मब्रवीत् ॥ ३५ ॥
 
सजलेत्यादि-सुत्रीवो हनुमन्तमब्रवीत् । सजलाम्भोदसंरावं सजलमेव-
स्यैव संरावो यस्य हनुमतः । '३१९२ । उपसर्गे रुवः । ३।३॥२२।' इति घन् ।
सहाङ्गदं भङ्गदसहितम् । तथा जाम्बवं ऋक्षाधिपतिं नीलसहितमब्रवीत्
जाम्बवशब्दोऽकारान्तो द्रष्टव्यः । चारुसद्वावं चारुगतिम् । '३१९४ । समि
युद्रुदुवः ।३।३।२३।' इति घञ् ॥
 
कुलकम् ३६-४०-
४७० - 'यात यूयं यम- श्रीयं दिशं नायेन दक्षिणाम् ॥
 
विक्षवस् तोय - विश्रावं तर्जयन्तो महो॒दधेः ॥ ३६ ॥
 
यातेत्यादि — यूयं यात गच्छत । यमश्रायं यमस्थानम् । श्रयत्येनमिति
'३१९५ । श्रि - णी-भुवोऽनुपसर्गे ।३।३।२४॥ इति धज् कर्मणि । काम् । दक्षिणां
दशम् । सामान्याभिधानाद्विशेषाभिधानम् । नायेन नीत्या सामादिना । नीय-
तेऽनेनेति पूर्ववत्करणे घञ् । महोदधेस्तोयविश्रावं तोयध्वनिं तर्जयन्तो न्यक्कु -
र्वाणाः । कैः । विक्षावैः स्वैः शब्दः । उभयत्रापि २१९६ । वौ क्षुश्रुवः ।३।३।२५।'
इति कर्मणि घञ् ॥
 
}
 
१-७१२ । उपाध्यायोऽव्यापकः' । २– '१९५ । शब्द निनाद - निनद- ध्वनि-ध्वान रव-
स्वनाः । १९६ । स्वान-निर्घोष-निद-नाद-निवान-
निःस्वनाः । आरवाऽऽराव-संराव-विरावाः ।'
३–१८७६ । प्रद्रावोद्राव-संद्राव-संदावा विद्रवोद्रवः ।' ४ – ५११७०] उन्नाय उन्नये,
श्रयणे, जयने जयः । ५- ११९५॥ निगारोद्वारविक्षावोद्-ग्राहाम् तु गरणा दिपु ।' इति
 
श्रायः
 
स० ना० अ० ॥