This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १६९
 
इत्यादिना यङ् । दीमं साधु दीप्यमानम् । अकम्पं अकम्पनशीलं अभीरुमित्यर्थः ।
नम्रः साधु प्रह्लीभूतः । सर्वत्र ३१४७ । नसि-कम्पि-।३।२।१६७।' इत्यदिना रः ॥
४५८ - कैनाभिरावृतः स्त्रीभिरीशंसुः क्षेममा॑त्मनः ॥
 
इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन नृपम् ॥२४॥
कम्राभिरित्यादि
– सुग्रीवः प्रावदन् नृपं लक्ष्मणम् । स्त्रीमिरावृतः परि
वृतः सन् प्रणमन् । ताभिः सहेत्यर्थः । कम्राभिः कमनशीलाभिः । पूर्ववदः ।
आत्मनः क्षेमं कल्याणमाशंसुः प्रार्थयमानः । '३१४८ । सनाशंसभिक्ष उः ।३।२।
१६८।' '६२७ । न लोक-।२।३।६९। इति षष्ठीप्रतिषेधः । इच्छुः प्रसादं प्रसाद-
ग्रिपणशीलः । 'अपि मे स्वामी प्रसन्नः स्यात्' इति । '३१४९। विन्दुरिच्छुः ।
३।२।१६९ ।' इति निपातनम् ॥
 
४५९–'अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह ॥
 
अ- भीरुर॑वसं स्त्रीभिर् भासुराभिरि॑िहेश्वरः ॥ २५ ॥
 
अहमित्यादि — अहं तव प्रसादेन इह गुहायामवसं उषितवान् स्वप्नक्
निद्रालु: चिन्ताभावात् । '३१५२। स्वपितृपोर्नजिङ्- ।३।२।१७२ । ' वन्दारुभिर्व-
न्दनशीलाभिः सह । '३१५३। गृ-वन्द्योरारुः ।३।२।१७३।' अभीरुः अभयशीलः ।
'३१५४ । भियः क्रु-कुक्रौ ।३।२।१७४॥ भासुराभिः भासनशीलाभिः । ईश्वरः
ईशनशील: । '३१५५ । स्थेश-भास - ।३।२।१७५ ।' इति वरच् ॥
 
४६० - विद्यन्- नाशं रवेर् भासं
 
विभ्राजं शश-लाञ्छनम् ॥
राम-प्रत्तेषु भोगेषु
 
नहमज्ञासिषं रतः ॥ २६ ॥
 
विद्युदित्यादि — रामप्रत्तेषु रामदत्तेषु भोगेषु रतः सक्तः । नाहमज्ञासिषं
नाहं ज्ञातवान् । लुङि २३७७ । यम-रम- । ७१२।७३।' इत्यादिना सगिटौ । विद्यु-
नाशं द्योतनशीला विधुतः तासां नाशम् । वेर्भाः भासनशीला दीप्तिः । ताम्
विभ्राजं साधु दीप्यमानं शशलाञ्छनं चन्द्रम् । प्रावृडतिक्रान्ता शरदायातेति
नाज्ञासिषमित्यर्थः । सर्वत्र '३१५७ । भ्राज-भास - ।३।२।१७७।' इति क्रिप् ॥
 
१–'२०६९। कम्रः कामयिताऽसीकः कमनः कामनोऽभिकः ॥ २-१०७२ ।
आशंसुराशंसितरि' । ३ (४५५ ) श्लोकस्थं टिप्पणं प्रेक्षणीयम् ।' ४–'१०७३ ।
चन्दारुभिवादके' इति स० ना० अ० ॥
 
भ० का० १५