This page has not been fully proofread.

१६८ भट्टि काव्ये - द्वितीयेऽधिकार
काण्डे लक्षण-रूपे द्वितीयो वर्गः,
४५५- स्पृहयातुं कपिं स्त्रीभ्यो निद्रालुमै दयालुवत् ॥
 
श्रद्धालुं भ्रामरं धारुं सद्रुम॑द्रौ वद द्रुतम् ॥ २१ ॥
स्पृहयालुमित्यादि—स्त्रीभ्यः स्पृहयालुं कपिं साधु स्पृहयन्तम् । स्पृहिः
स्वार्थिकण्यन्तो ऽदन्तश्च । २३११॥ अयमन्त-।६॥५५॥ इत्ययादेशः ५७४॥
स्पृहेरीप्सितः ॥४।३६।' इति सम्प्रदानसंज्ञा । द्रुतं वद ब्रूहि । अयालुवत्
अदयनशील इव । निद्रालु निद्राशीलं अस्मत्कार्ये वनवधानत्वात् शयनीय एव
सर्वदा स्थितत्वात् त्रीभिः सह । श्रद्धालुं साध्वभिलपन्तम् । किम् । भ्रामरं
भ्रमरैः : कृतम् । १४९९। क्षुद्रामर - 1४।३।११३।' इत्यादिना अन् । मध्विय-
र्थात् । '६२७ । न लोक-।२।३।६९।' इति पष्ठीप्रतिषेधः । '३१३८ । स्पृह- गृहि
-।३।२।१५८।' इत्यादिना आलुच् । श्रद्धालुत्वादेव धारुं साधु पिबन्तं भ्रामर-
मेव । सर्दु साधु सीदन्तम् । व । अनौ ।'३१३९। दा धेट्र-मि-शद-सदो रुः
 
।३।२।१५९।' ॥
 
४५६ - सृमरो भङ्गुर प्रज्ञो गृहीत्वा भासुरं धनुः ॥
 
विदुरो जित्वरः ग्राप लक्ष्मणो गत्वरान् कपीन्.॥२२॥
 
सृमर इत्यादि – लक्ष्मणः कपीन् प्राप । कीदृशः । समरः साधु गन्ता ।
* ३१४० । सृघस्यदः क्मरच् । ३।२।६०॥ भकुरा ये स्वयमेव भज्यन्ते । '३१४१ ॥
भञ्ज-भास ।३।२।१६१।' इति घुरच् । तान् प्रजानातीति भङ्गुरप्रज्ञः '२९२० । प्रे
दाज्ञः । ३।२।६।' इति कः । विदुरः साधु वेदी । '३९४२ । विदि-भिदि-च्छिदेः कुरच्
।३।२।१६२ । । जिव्वरः साधु जयशीलः । '३१४३ । इण्-नश्-जि- ।३।२।१६३।'
इत्यादिना करप् । गृहीत्वा धनुर्भासुरं भासनशीलम् । गत्वरान् गमनशीलान्
कपीन् । अस्थिरप्रकृतीनित्यर्थः । 'गत्वरश्च' इति निपातितम् । गमेः करप्यनुना-
सिकलोपः ॥
 
४५७ - तं जागरूकः कार्येषु दन्दशर्के - रिपुं कपिः ॥
 
अ- कैम्पं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम् ॥ २३॥
 
तमित्यादि – तं लक्ष्मणं कपिर्मारुतिः गुहां प्रावेशयत् । विशेर्हेतुमण्ण्य-
न्तात् लङि रूपम् । कार्येषु कृत्येषु जागरूक: सावधानः । '३१४५। जागरूकः
।३।२।१६५।' इति जागरूकः । दन्दशकरिपुं हिंस्रारिम् । '३१४६। यज-जप
-।३।२।१६६।' इत्यादिना दंशेर्यङन्तादूकः । '२६३५ । लुप-सद - ।३॥।२४।
 
१- ११०७८। स्वप्नक् शयालुर् निद्रालुर् निद्राण-शयितौ समौ' । २ - 'श्रद्धालु
श्रद्धया युक्ते' । ३–'१०७७ जागरूको जागरिता' । ४ – 'दन्दशकस् तु पुंलिङ्गो राक्षसे
च सरीसृपे ।" इति कोशान्तरम् । ५-१९२० चलनं कम्पनं कम्प्रं, चलं लोलं चलाच-
लम् । इति सर्वत्र ना० अ० ।
 
;