This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः-
१६७
८३१३३ । सूद-दीप-दीक्ष-।३।२।१५३।' इति प्रतिषेधः । निरस्तध्वान्तसंचयं अप-
नीतान्धकारसंहतिकं किमसौ शरत्समयं नावैतीत्यर्थः ॥
 
४५२- अतीते वर्षके काले, प्रमत्तः स्थायुको गृहे ॥
 
गामुको ध्रुवम॑ध्वानं सुग्रीवो वालिना गतम् ॥ १८ ॥
अतीतेत्यादि — वर्षुके वर्षणशीले काले अतीतेऽपि गृहे स्थायुकः स्थिति-
शीलः शरदि नागतत्वात् प्रमत्तः सन् सुग्रीवो वालिना गतं अध्वानं प्राप्तमार्ग
ध्रुवमवश्यं गामुकः साधु गन्ता । '३१३४ । लप-पत । ३।२।१५४ ।' इत्युकञ् ।
'६२७ । न लोक - ।२।३।६९॥ इति षष्टीप्रतिषेधः ॥
 
४५३ - जल्पाकीभिः सहा॑ ssसीनः
स्त्रीभिः प्रजविना त्वया ॥
गत्वा लक्ष्मण ! वक्तव्यो
जयिना निष्ठुरं वचः ॥ १९ ॥
 
जल्पाकीभिरित्यादि- हे लक्ष्मण ! त्वया प्रजावना प्रकृष्टगमनशीलेन ।
'३१३६ । प्रजोरिनिः । ३ । २ । १५६ । 'जयिना अभिभवनशीलेन । '३१३७। जि-ह-क्षि-
।३।२।१५७।' इत्यादिना इनिः । सुग्रीवो निष्ठुरं वचोऽभिधातव्यः । जल्पाकीभिः
जल्पनशीलाभिः स्त्रीभिः सहासीनः । '३१३५॥ जल्प- भिक्ष- ।३।२।१५५।' इति
पाकन् । षिवात् ङीष् । तन्मध्ये हि परुषमभिधीयमानः परिभवं मन्यत
इति भावः ॥
 
४५४ - शैले विश्रयणं क्षिप्रम॑नादरिणम॑भ्यमी ॥
 
न्याय्यं परिभवी ब्रूहि पापर्म व्यथिनं कपिम् ॥ २० ॥
 
शैल इत्यादि – कपिं क्षिप्रं गत्वा ब्रूहि इत्य कथितं कर्म । न्याय्यं वच इति
प्रधानं कर्म । अस्य चातिस्पष्टार्थत्वादिदं तदिति संदिष्टम् । अनादरिणमनादर-
शीलं कपिं कालातिक्रमणात् । आपूर्वो दृङ् । अत एव पापं दुराचारम् । अव्य-
थिनं निर्भयशीलम् । नज्पूर्वो व्यथिः । शैले विश्रयिणं तत्र स्थितिशीलम् ।
विपूर्वः श्रयतिः । त्वं चाभ्यमी अभिमुखगमनशीलः । अभिपूर्वोऽमगत्यादिषु ।
परिभवी साधु परिभवं जनयन् । परिपूर्वो भवतिः । अत्र 'सर्वत्र ' ३१३७॥
जिदृक्षि-।३।२।१५७।' इत्यादिना इनिः ॥
 
१–'१८१ । स्याज् जल्पाकस् तु वाचालो वाचाटो बहुगर्हावाक् ॥ इत्यनुशासनात् त्रिषु
लिङ्गेष्वयं शब्दः ।