This page has not been fully proofread.

१६६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे द्वितीयो वर्गः,
४४८ - अथौपचरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैः ॥
उत्कण्ठा-वर्धनैः शुभ्रं रैवर्णैरम्वरं ततम् ॥ १४ ॥
:
 
अथेत्यादि – अथानन्तरमुपशरदे शरत्समीपे इति । १६७७ । अव्ययीभावे
शरप्रभृतिभ्यः ।५।४।१०७ । इति समासान्तष्टच् । '६५८ । तृतीया-सप्तम्योर्बहु-
लम् ।२।४।८॥' इत्यमभावः । क्रौञ्चानां कुलैस्ततं व्यासमम्दरं शुभ्रं शुकुमपश्यत्
दृष्टवान् । चेष्टनैः व्यापारशीलैः । रवणैः शदनशीलैः । अनयोश्चलनशब्दार्थ-
च्वात् '३१२८ । चलनशब्द - । ३।२।१४८।' इत्यादिना युच् । उत्कण्ठावर्धनैः उत्क-
ष्ठावर्धनशीलैः। '३१२९ । अनुदात्तेतश्च ।३।२।१४९ । इतिच् । क्रौञ्च इति
क्विन्प्रत्ययान्तत्वात् प्रज्ञादिव्वादण् ॥
 
४४९ - विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत् - ॥
"पश्य दन्द्रमणान् हंसान॑रविन्द - समु॒त्सुकान् ॥ १५ ॥
विलोक्येत्यादि–च विलोक्य द्योतनं साधु द्योतमानम् । '३१२९॥
अनुदात्तैतश्च—।३।२।१४९ । इति युच् । शोचनः शोचनशीलः । '३१३० ।
जुचङ्क्रम्य–।३।२।६५०।' इत्यादिना युच् । रामो लक्ष्मणनवदत् । पश्य हंसान्
दन्द्रमणान् शनैर्द्रमणशीलान् । इमेर्नित्यं कौटिल्य एव भवति नतु
क्रियासमभिहार इत्युक्तम् । तदन्तायुच् । अतो लोपः । यस्य हलः । अरविन्द्र-
समुत्सुकान् '६४१ । प्रसित ।२।३।४४ । इति सप्तमीं विधाय 'सप्तमी' इति
योगविभागात् सः ॥
 
,
 
४५० - कपिश् चङ्क्रमणो ऽद्यापि नो ऽसौ भवति गर्धनः ॥
कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम् ॥१६॥
कपिरित्यादि-नासौ कपिः सुग्रीवोऽद्यापि चङ्क्रमणः शनैर्गमनशीलो न
भवति । यतो गर्धनो ऽभिलापशीलः स्त्रीण्वित्यर्थात् । पूर्ववच् । ताराश्च मां
कोपनं कोपनशीलं तद्विषय एव कुर्वन्ति । कीदृश्यः । गगनस्य मण्डना भूषणाः ।
'३१३१॥ क्रुध–मण्डार्थेभ्यश्र । ३ । २।१५१॥ इति युच् ॥
४५१ नो॑ ऽवैत्या॑प्यायितारं किं कमलानि रविं कपिः ॥
 

 
दीपितारं॑ दिना॒ऽऽरम्भे निरस्त - ध्वान्त-संचयम् ॥ १७॥
नावैतीत्यादि – किमसौ कपिः रविं नावैति नावगच्छति । कमलान्याप्या-
यितारं साधु वर्धयन्तम् । '३१२९। अनुदात्ततश्च - ।३।२।१२९ । ' इति प्राप्ते । '३१३२ ।
नयः। ३।२।१५२।' इति प्रतिपिद्धे तृन्नेव भवति । ततश्च '६२७। न लोक-२।२।६९।'
इति षष्टीप्रतिषेधः । दिनारम्भे दीपितारं साधु दीप्यमानम् । पूर्ववधुचि प्राप्ते
१-'१०८३ रवणः शब्दनो, नान्दीवादी नान्दीकरः समौ ।' २ – २०६७ । गृनुस् तु
गर्धनः । लुब्धो ऽभिलापुकस् तृष्णक्, सभी लोलुप लोलुभौ " ना० अ० ।