This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीताऽन्वेपणं नाम सप्तमः सर्गः - १६५
 
एता इत्यादि-एताः धाराः पतन्त्यो द्वेषिण्य इव द्वेषणशीला इव जनं
रागिणं रागशीलम् । अनपकारिणमनपराधशीलं पीडयन्ति । दैवानुरोधिन्यः
भाग्यानुरोधात् प्रवर्तनशीला: । पूर्ववत् धिनुण् । धिनुणि च 'रञ्जेरुपसंख्यानम्'
इत्यनुनासिकलोपः । कृताननुनासिक निर्देशाद्वा लोपनिपातनम् ॥
४४४–कुर्याद् योगिनमप्ये॑ष स्फूर्जा-वान् परिमोहिनम् ॥
त्यागिनं सुख-दुःखस्य परिक्षेप्य॑म्भसामृतुः ॥ १० ॥
कुर्यादित्यादि – एष ऋतुरम्भसां जलानां परिक्षेपी परित्यजनशीलः । कर्मणि
षष्टी । योगिनमपि योगशीलमपि । सुखदुःखस्य त्यागिनं त्यागशीलम् । कर्मणि
षष्ठी । परिमोहिनं परिमोहनशीलम् । कुर्यात् । कीदृशः । स्फूर्जावान् वज्र-
निर्घोषयुक्तः । पूर्ववद् धिनुण् ॥
 
४४५ - विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम् ॥
 

 
पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम् ॥ ११ ॥
विकत्थीत्यादि – चातको मानसं निकृन्तन्निव खण्डयन्निव । प्रत्तं प्रदत्तम्
।' ३०७८ । अच उपसर्गात् तः ।७।४।४७१' जलं याचत इति प्रधानं कर्म । पर्ज-
न्यमित्यकथितम् । विकत्थी विकत्थनशील इव पर्जन्योऽपि मह्यं जलं ददाति ।
इवशब्दो लुप्तोऽत्र द्रष्टव्यः । अविश्रमभी अविश्वासशीलः । मानसखण्डनात्
' ३१२३ । वौ कष-लस - ।३।२।१४३॥ इति घिनुण् ॥
 
४४६- प्रलापिनो भविष्यन्ति कदा न्वैते ऽपलाषिणः ॥
 
प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः ॥ १२ ॥
प्रलापिन इत्यादि - एते पापदर्दुराः पापाश्च ते दर्दुराश्चेत्याक्रोशाभिधानम् ।
कदा नु अपलापिणो भविष्यन्ति । अपलषणशीला: व्यपगतकामा इत्यर्थः ।
'९५३। लष कान्तौ ।' '३१२४ । अपे च लषः । ३।२।१४४।' इति घिनुण् । प्रला-
पिनः प्रलपनशीलाः प्रमाथिनः प्रमथनशीलाः । चेतसामित्यर्थात् । '३१२५ । प्रे-
लप - ३।२।१४५।' इत्यादिना धिनुण् । अत एव वियुक्तानां मादृशां हिंसकाः हिंसन-
शीलाः । इत्येवं विललाप । '३१२६ । निन्द - हिंस- । ३।२।१४६।' इत्यादिना वुज् ॥
४४७ - निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम् ॥
 
प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः ॥१३॥
निन्दक इत्यादि-काकुत्स्थो दिवसं रजनिंमन्यं रजनीमात्मानं मन्यमानं
घनान्धकारित्वात् । '२९९३ । आत्ममाने खश च ।३।२।८३।' । '२९४३॥
खित्यनव्ययस्य । ६।३।३६ ।' इति इस्वत्वम् । निशां च प्रावृषि कथमप्यनैषीत्
नीतवान् । निन्दकः निन्दनशीलः । नक्तंदिनस्येत्यर्थात् । क्लेशकः क्लेशनशीलः ।
परिदेवकः परिदेवनशीलः । आत्मन इत्यर्थात् ॥