This page has not been fully proofread.

१६४ भट्टिकाव्ये – द्वितीयेऽधिकार
काण्डे लक्षण-रूपे द्वितोयो वर्गः,
किं तद्विलपनमित्याह-
४३९ - 'अमी कदम्व-संभिन्नः पवनः शमिनाम॑पि ॥
 
M
 
कुमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः ॥ ५॥
 
भ्रमीत्यादि — भ्रमी भ्रमणशीलः । कदम्बसँभिन्नः कदम्बगन्धसंश्लिष्टः
शमिनामपि शमनशीलानामपि कृमित्यं कुरुते अत्यर्थं ग्लानिं कुरुते । '३१२॥
शमित्यष्टाभ्यो धिनुण् । ३।२।१४।१॥ '२७६३ । नोदात्तोपदेश - ।७।३।३४।' इत्या-
दिना उपधावृद्धिप्रतिषेधः ॥
 
४४०- संज्वारिणे॑व मनसा ध्वान्तमा॑यासिना मया ॥
 
द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम् ॥ ६॥
संज्वारिणेत्यादि- मयैतत् ध्वान्तं तमो दुःसहं दुःखेन सह्यत इति ।
मनसा करणभूतेन । कोहदोन । संज्वारिणेव रोगशीलेनेव । आयासिना आयास-
शीलेन मयेति । द्रोहि अपकारशीलम् । ध्वान्तं खद्योतसंपर्क ज्योतिरिङ्गणसं-
सर्गशीलम् । नयनामोषि चक्षुर्मोषणशीलम् । '३१२२ । पृचानुरुध-।३।२।१४२।'
इत्यादिना सर्वे विनुणन्ताः ॥
 
४४१ - कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् ॥
 
T
 
अभ्याघातिभिरा॑मिश्राश् चातकैः परिराटिभिः ॥ ७ ॥
कुर्वन्तीत्यादि ॥ एता विद्युतः परिदेविनं परिदेवनशीलं कुर्वन्ति । मामि-
त्यर्थात् । कीदृश्यः । परिसारिण्यः परिसरणशीलाः । चातकैः पक्षिविशेषैः परिरा-
टिभिः परिरटनशीलैः । एवंचाभ्याघातिभिः अभिहननशीलैः । दुःखोत्पादनात् ।
आमिश्रा युक्ता विद्युतः । पूर्ववद्विनुण् ॥
 
४४२ - संसर्गी परिदाहीव शीतो ऽप्या॑भाति शीकरः ॥
 
,
 
सोढुमक्रीडनो ऽशक्याः शिखिनैः परिवादिनः ॥८॥
 
संसर्गीत्यादि — संसर्गी संसर्जनशीलः । शीतोऽपि शीकरो बिन्दुः । परि-
दाहीव परिदहनशील इवाभाति । शिखिनश्च मयूराः सोढुमशक्याः । आक्री-
डिनो नर्तनशीलाः । परिवादिनः परिवदनशीला इव । इवशव्दश्चात्र लुप्तो
द्रष्टव्यः । पूर्ववद् घिनुण् ॥
 
४४३ - एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम् ॥
 
पीडयन्ति जनं धाराः पतन्त्यो ऽनुपकारिणम् ॥९॥
 
१-९५ धारासंपात आसार: शीकरोऽम्बुकणाः स्मृताः । २-५४८ समौ पतङ्ग
शलभौ, खद्योतो ज्योतिरिङ्गणः । ३–५३६ । अथ सारङ्गः स्तोककश् चातकः समाः ।'
४-१५५९ । मयूरो बर्हिणो बहीं नीलकण्ठो भुजङ्ग-भुक् । शिखावलः शिखी केकी मेघनादा-
उनुलास्यपि । इति सर्वत्र ना० अ० ॥