2023-02-15 17:22:13 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथान के सीताइन्वेषणं नाम सप्तमः सर्गः-
४३६ - तर्पणं प्रजनिष्णूनां शंस्यानार्म- मलं पयः ॥
रोचिष्णवः स विस्फूर्जा मुमुचुर् भिन्न वद् घनाः ॥२॥
d
तर्पणमित्यादि – घना अमलं पयो मुमुचुः । भिन्नवत् भिन्ना इव । कीदृशं
पयः । तर्पणं शस्यानां तर्पणं तर्पयतीति '२८४१॥ कृलल्दुटो बहुलम् ।३।२१-
११३ ।' इति कर्तरि व्यु । प्रजनिष्णूनां साधु प्रादुर्भवताम् । रोचिष्णवः साधु
दीप्यमानाः । सविस्फूर्जा: सवज्रनिस्वनाः । ८३११६ । अलंकृञ् ।३।२।१३६॥
इत्यादिना इष्णुच् ॥
४३७ - निरौकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः ॥
अलंकरिष्णवो भान्तस् तर्डिंत्वन्तश् चॅरिष्णवः ॥ ३॥
-
निरेत्यादि - भानुं निराकरिष्णवो निराकरणशीला घनाः पयो मुमुचुरिति
योज्यम् । दिवमभितो वर्तिष्णव आकाशमभितो वर्तनस्वभावाः । पूर्वपश्चिमयो-
वर्तनहेतुत्वात् । पर्यभिभ्यां सर्वोभयार्थे तसिः । 'अभितः परितः -' इति
द्वितीया । तडित्वन्तः सवितः । अत एव भान्तो दीप्यमानाः । एवं च कृत्वा
अलंकरिष्णवोऽलङ्करणशीला इव । दिशश्चरिष्णवः इतस्ततो गमनशीलाः ।
पूर्ववदिष्णुच् ॥
४३८ - तान् विलोक्यो ऽसहिष्णुः सन्
विललापौन्मदिष्णुं -वत् ॥
वसन् माल्यवति ग्लास्तू
रामो जिंष्णुरे- धृष्णु-वत् ॥ ४ ॥
C
तानित्यादि ॥ तान् घनान्विलोक्य असहिष्णुरसहनशीलो रामः माल्यवति
पर्वते वसन्विललाप । उन्मदिष्णुवत् उन्मदनशील: उन्मत्तस्तद्वत् । पूर्ववदिष्णुच् ।
ग्लास्रुः ग्लानशीलः । जिष्णुर्जयशीलः । अटष्णुवदप्रगल्भ इव । शोकाभिभूत-
त्वात् । '३११९॥ ग्ला-जि-स्थश्च स्तुः ।३।२।१३९॥ । धृष्णुरिति '३१२० । त्रसि-
गृधि ।३।२।१४०।' इत्यादिना नुः
१–'३६३। वृक्षाऽऽदीनां फलं शस्यम् । २–१६६५ । विभ्रा भ्राजिष्णु-रोचिष्णू' इति
ना० अ० । ३ - २०७५ । निराकरिष्णुः क्षिनुः स्यात्' । ४/५-२०७४/ उत्पतिष्णुस् तूप-
तिता, डलंकरिष्णुस् तु मण्डितः । भूष्णुर् भविष्णुर् भविता वर्तिष्णुर् वर्तनः समौ ।'६--
'९० । अभ्रं मेघो वारिवाइः स्तनयित्नुर् बलाहकः । धाराधरो जलधरस् तडित्वान् वारिदोऽम्बु
भृत् ।' ७ – '१११९ । चरिष्णुजङ्गम-चरम्' । ८-१०७६ । सहिष्णुः सहनः क्षन्ता ।
९ – १०६८। सोन्मादस् तन्मदिष्णुः स्यात् । १० – ६२१। ग्लान-ग्लास्नू, आमयावी
विकृतो व्याधितोऽपटुः' । ११-१८४२ जेता जिष्णुश् च जित्वरः ।' इति सर्वत्र ना० अ० ।