This page has not been fully proofread.

१६२ भट्टि काव्ये — द्वितीयेऽधिकार - काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
नामेत्यादि ॥ वानरेन्द्रः सुग्रीवः किष्किन्धादि न्यविशत निविष्टवान् ।
८२६८३ । नेविंशः ।१।३।१७।' इति तङ् । अशनैः सुष्टु कपिभिः स्तूयमानः ।
वर्तमाने लट् । तस्य कर्मणि विहितत्वात् । '३१०३ । लक्षणहेत्वोः क्रियायाः ।३।
२१३२६ ।' इति शानच् । नामग्राहं नाम गृहीत्वा । '३३८०१ नाझ्या दिशि-ग्रहोः
शि४।१८।' इति णमुल । समन्तात्सर्वतः । विराजन् शोभनानः । अत्र परस्मैप-
दुसंकः शतृप्रत्ययः । किं कृत्वा । रघुवृषभयोरन्वग्भावं अनुकुलो भूत्वा । अन्व-
वपूर्वाद्भवतेः '३३८६ । अन्वयानुलोये ।३।४।६॥' इति णमुल । तदनुकूलव-
र्तित्वादिराजन् । कढ़ा न्यविशत । अभ्यर्णे निकटे । अम्भःपतनसमये ग्रावृपी-
त्यर्थः । पर्णलीभूतसानुं पर्णानि सन्ति येषामिति सिध्मादिपाठालच् । तदन्ता-
दभूततद्भावे च्विः । पर्णलीभूताः सानव एकदेशा यस्याः । मधुक्षीबा
मधुमत्ता गुञ्जन्तो द्विरेफा यत्र । क्षीब इति '३०३५॥ अनुपसर्गात् फुल-
क्षीब-कृशोल्लावाः ।८॥५५॥ इति निपातितः । '४०७ । क्षीवृ मदे ।' इत्यस्मात्
कमवयस्य लोप इडभावश्च निपात्यते । गुजेर्लट् । क्वचित् प्रथमासमानाधिक-
रणेऽपि शतृप्रत्ययः ॥
 
इति सोपपदकृतः ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ),
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नामः
षष्ठः सर्गः पर्यवसितः ।
 
सप्तमः सर्गः ॥
 
इतस्ताच्छीलिकं कृतमधिकृत्योच्यते । ताच्छीलिकमित्युपलक्षणम् । तद्धर्मत-
साधुकारिष्वपि द्रष्टव्यम् । यतः '३११४॥ आकेम्तच्छील-तद्धर्म-तत्साधुकारिषु
।३।२।१५४।' इति तत्राधिक्रियते -
 
3
 
४३५ - ततः कर्ता वऽऽकम्पं ववौ वर्षा-प्रेभञ्जनः ॥
नभः पूरयितारश् च समुन्नेमुः पँयो धराः ॥ १ ॥
 
-
 
तत इत्यादि ॥ ततः प्रवेशानन्तरं वर्षाप्रभञ्जनः प्रावृड्डातो ववौ वाति स्म ।
'११२४ । वा गति - गन्धनयोः' इति । कर्ता वनाकम्पं साधु कुर्वन् । ३११५ । तृन्
।३।२।१३५।' इति तृन् । '६२७ । न लोक । २।३।६९॥ इति षष्ठीप्रतिषेधः ।
पयोधरा मेघाश्च समुन्नेमुः समुन्नताः । कीदृशाः । नभः पूरयितारः । तृन् ॥
 
१ – १९४११ स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्पाः' । २-५७० । नभस्वद्-वात-पवन-पव-
मान-प्रभञ्जनाः' । ३ – १३७२ । स्त्री स्तनाब्दौ पयोधरौ' । ना० अ०