2023-02-15 17:22:12 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः-
१६१
।३।२।११४।' इति पक्षे ऌद । साकाङ्क्षता च प्रयोक्तुर्लक्ष्यलक्षणयोः संबन्धे ।
तत्र वासो लक्षणं पानं च लक्ष्यमिति । यस्माद्वन्धूनामयमेष समयः कालः ॥
४३१ - दैवं न विदधे नूनं युगपत् सुखमा॑वयोः ॥
,
शश्वद् बभूव तद् दुःस्थं यतो न इतिहा॑ ऽकरोत् ॥
दैवमित्यादि – नूनमवश्यं देवमावयोः सुखं युगपदेकफालं न विदधे न हि
विहितवत् । परोक्षे लिट् । जित्वात्त । अतो लोपः । यतो यस्नात्तत् दैवं शश्वत्
नित्यं दुःस्थमननुकूलं नोऽस्माकं बभूव तस्मादितिह एवमकरोत् इत्येवं
कृतवान् । यद्युगपदावयोः सुखविधानं तद्दुःस्थं शश्वद्वभूव । हाकरोदिति भूता-
नद्यतनपरोक्षे लिटि प्राप्ते '२७७६ । ह-शश्वतोर्लङ् च ।३।२।११६।' इति लड़् ।
चकारात् लिट् । तत्र शश्वच्छब्दे उपपदे लिडेवोदाहृतः न लङ् । हशब्दे लडेव
न लिडपीति ॥
४३२ - ददौ स दयितां भ्रात्रे मालां चाऽत्र्यां हिरण्मयीम् ॥
राज्यं संदिश्य भोगांश च ममार व्रण पीडित: १४१
ददावित्यादि – स वाली दयितां ताराख्यां आत्रे सुग्रीवाय ददौ मालां
चाभ्यां श्रेष्ठां हिरण्मयीं सुवर्णघटिताम् । राज्यं सामात्यादिद्रव्यप्रकृतिम् ।
संदिश्य दत्त्वा । भोगांश्च राज्याङ्गानि । ममार व्रणपीडितः । तत्रापि परोक्षे लिट् ॥
४३३ - तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया ॥
किष्किन्धाऽद्रि गुहां गन्तुं मनः प्रणिदधे द्रुतम् १४२
तस्येत्यादि — तस्य मृतस्य कर्तव्यं पिण्डोदकादिकरणीयं कृत्वा सुग्रीवो
राघवाज्ञया 'गच्छ वर्षासमयमतीत्य शरद्यागमिष्यास' इति आज्ञया किष्किन्धा-
द्विगुहां गन्तुं मनः द्रुतं प्रणिदधे कृतवान् । अन्नापि परोक्षे लि ।
४३४ नाम ग्राहं कपिभिर॑शनैः स्तूयमानः समन्ता-
द॑न्वग्-भावं रघु वृषभयोर् वानरेन्द्रो विराजन् ॥
अभ्यर्णे ऽम्भः पतन समये पर्णलीभूत- सानुं
किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जदू-द्विरेफम्.
१ – मन्दाक्रान्तावृत्तमिदम् । तल्लक्षणं तु - ९७ । मन्दाक्रान्ता जलधिषडगैर् म्-भौ नत्तौ
तागुरू चेत् ।" इति वृत्तरत्नाकरे भट्टकेदारः ।