2023-02-15 17:22:12 by ambuda-bot
This page has not been fully proofread.
3
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १५९
४२३ - कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि ॥
आत्माऽनुजस्य जिहेषि सौमित्रेस् त्वं कथं न वा. १३२
कथमित्यादि – स्वयमात्मना धर्मे दुष्टुः दुःस्थः सन् । 'अपदुःसुपु स्थ: '
इत्यौणादिकः कुप्रत्ययः । कथं प्रजाः पालयिष्यसि नैवेति भावः । '३००९। उप-
सर्गे च संज्ञायाम् ।३।२।१९। इति जनेः । कथं वा सौमित्रेर्भ्रातुरात्मानुजस्य
कनीयसः । आत्मानमनुजात इति '२०१०। अणौ कर्मणि।३।२।१००१' इति
डः । न जिह्वेष न लजसे ॥
४२४ मन्ये किं जर्महं मन्तं त्वार्म क्षत्रिय जे रणे ॥
लक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तर्मनुजेन नः १३३
मन्य इत्यादि - किंजं त्वामहं कुतोऽपि जातं न राजजातं मन्ये । '३००८॥
पञ्चम्यामजातौ ।३।२।१८।' इति डः । नन्तं मारयन्तम् । अक्षत्रियजे रणे क्षत्रि-
यादजाते । हे लक्ष्मणाधिज लक्ष्मणाग्रज ! दुर्वृत्त ! नोऽस्माकमनुजेन भ्रात्रा प्रयुक्तं
प्रेरितम् । तत्र 'पञ्चम्यामजातौ' इत्युक्तं जातावपि दृश्यते अक्षत्रियज इति ।
'उपसर्गे च संज्ञायाम्' इत्युक्तं असंज्ञायामपि दृश्यते । लक्ष्मणाधिज इति
'अनौ कर्मणि' इत्युक्तं अकर्मण्यपि दृश्यते । अनुज इति सर्वत्रान्येष्वपि दृश्यत
इति डः ॥ इत्युपपदाधिकारः ॥
४२५ - प्रत्यूचे वालिनं रामो- 'नौ ऽकृतं कृतवान॑हम् ॥
यज्वभिः सुत्वभिः पूर्वैर् जरद्भिश च कपीश्वर ! १३४
-
प्रत्यूच इत्यादि - रामोऽपि वालिनं प्रत्यूचे प्रत्युक्तवान् । किमित्याह । हे
कपीश्वर ! पूर्वैर्जरद्भिर्वृद्धैः । '३०९२ । जीर्यतेरतृन् । ३।२।१०४ ।' यज्वभिः याज्ञिकैः
सुव्वभिः सोमयाजिभिः । '३०९१ । सु-यजोनिप् । ३ । १ । १०३ ।' । नाकृतं कृतवानहं
अपि तु कृतमेव कृतवानहम् । ८९९। निष्ठा । २।२।३६॥ इति भूते तक्तवत् ॥
४२६ - ते हि जालैर् गले पारौंस तिरश्चार्मुपसेदुषाम् ॥
ऊषुषां पर दारैश् च सार्धं निधनमैषिषुः ॥ १३५ ॥
त इत्यादि – यस्मात्ते पूर्ववृद्धाः जालैर्गले पाशैश्च तिरश्चां मृगपक्षिसरीसृपाणां
१ – '२ । ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्याऽस्य यथान्यायं कर्तव्यं परिरक्ष-
णम् । मनु० अ० ७ इति स्मृत्या राज्ञां प्रजारक्षणमेव मुख्यो धर्मः स च दुष्टाचरणेन न संप-
द्येतेति द्योतयन्नाह —'कथं दुष्टुः स्वयं धर्मे-' इत्यादि । २ – ततो रामः परदार सेवनादिदुष्कर्न-
करणात् दण्ड्य एव त्वं तथाभूतस्य च दण्डाकरणं '२० यदि न प्रणयाद्राजा दण्डं दण्ड्येष्वत-
न्द्रितः । शूले मत्स्यानिवाऽपक्ष्यन् दुर्बलान् बलवत्तराः ।' म० अ० ७ । इति स्मृते राज्ञां दोषा-
यैवेति युक्तमेवैतदित्याह– 'नाऽकृतं कृतवान्' इत्यादि । ३ – १६०५ । प्रवयाः स्थविरो वृद्धो
जीनो जीर्णो जरन्नपि । ना० अ० ।