This page has not been fully proofread.

१५८ भट्टि- काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
आदिशब्दाच्छ्येनचिढादिग्रहणम् । अभ्यर्थो हि तदाकार इष्टकाचय इत्युच्यते
तारेणानिरपि ॥
 
४२० - मांस विक्रयिणः कर्म व्याधस्य ऽपि विगर्हितम् ॥
 
मां नता भवता Sकारि निःशङ्कं पाप-दृश्वना. १२९
 
मांसेत्यादि- मांसविऋयिणः कुत्सितकर्मकारिणो व्यावस्थापि विगर्हितं
निन्दितम् । '३००३ । कर्मणीनिविक्रियः । ३।२।१३।' इति इनिः । तत्र 'कुत्सित-
ग्रहणं कर्तव्यम्' इत्युक्तम् । लिकृष्टकर्मकरणेनेति यद्भवता पापद्यश्वना पापं दृष्ट-
वता । '३००४ । दृशेः कतिप् ॥३।२।१४॥ '३५५/ न संयोगासन्तात् । ६।४।-
१३७७' इति अल्लोपप्रतिषेधः । कर्म अकारि कृतम् । कर्मणि लुङ् । निःशङ्क
शङ्कां त्यक्त्वा । किं कुर्यता । मां नता मारयता । हन्तेः शतार '२३६३। गम-हन-
-।६।४।९८।' इत्युपधालोपः । '३५८। हो हन्तेः । ७।३।५४ ।' इति कुत्वम् ॥
४२१ बुद्धिपूर्व ध्रुवन् न त्वा राज-कृत्वा पिता खलम् ॥
सहयुध्वानम॑न्येन यो ऽहिनो माम॑नागसम् ॥ १३० ॥
 
बुद्धिपूर्वमित्यादि- त्वत्पिता त्वां खलं असाधुचरितं ध्रुवन् गच्छन् '१४-
९२ । तु गतिस्थैर्ययोः' इति तुदादौ पठ्यते । तस्य गतौ ज्ञानार्थे वर्तमानस्य
शतरि विकरणलोपे उवङादेशे रूपम् । यन्न राजकृत्वा । कस्य तदेत्यर्थात् । '३००५ ।
राजनि युधि कृञः ।३॥२।१५॥ इति क्वनिप् । तत्तस्य बुद्धिपूर्वम् ध्रुवमवश्यं
तस्येति व्याख्याने कृत्प्रयोगे कर्मणि षष्ठ्या भवितव्यम् । यस्त्वं मामनागसमपा-
पमन्येन सहयुध्वानं अन्येन सुग्रीवेण सह योद्धुं प्रवृत्तम् । '३००६ । सहे च
।३।२।९६ ॥ इति क्वनिप् । अहिनः हिंसितवान् । हिंसेलेडि मध्यमपुरुषैकवचने
श्रमि मान्नलोपे हलङ्यादिलोपे रुत्वे च रूपम् ॥
 
मांसार्थं हत इति चेदाह -
 
४२२ - पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः ॥
कौशल्या-ज! शशाऽदीनां तेषां नैको sप्यहं कपिः.
 
पञ्च पञ्चेत्यादि - हे कौशल्याज कौशल्याजात । '३००७ । सप्तम्यां जनेर्ड:
।३।२।१७॥ ये पञ्च पञ्चनखाः । 'शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः'
इति । कृतजैः कृतयुगजातैः । सप्तम्यां जनेडः । द्विजैर्द्वतैः । '३०११॥ अन्ये -
ध्वपि दृश्यते ।३।२।१०१॥ इति डः । सप्तम्यामित्युपलक्षणम् । असप्तम्यामपि
दृश्यते । भक्ष्याः भक्षणीयाः प्रोक्ताः । तेपामहमेकोऽपि न भविता अहं कपिः ।
तत्किमिति हतोऽहं त्वयेति ॥
 
१ - ७९२ । आगोऽपराधो मन्तुश् च इति सर्वत्र ना० अ० ।