This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १५७
 
२१८३ ।' इति चकाराण्णिनिः । व्रणवेदनया ग्लायन् ग्लानिमुपगच्छन् । साधु-
मन्यं साधुमात्मानं मन्यमानं रामम् । तेनैव खश । तस्मिन् सार्वधातुके परतो
दिवादित्वात् श्यन् । पूर्वपदस्य सुम् । असाधुवदसाधुमिव । असाधुना तुल्यं
वर्तते इति वतिः ॥
 
४१७ - 'भूषा ऽसि त्वं हविर्-याजी राघव ! छद्म-तापसः ॥
अन्य - व्यासक्त-पातित्वाद् ब्रह्मनां पाप-संमितः १२६
 
-
 
मृषेत्यादि - हे राघव ! त्वं छद्मना तापसः स त्वं मृपैव मिथ्यैव हविर्याजी
हविषा करणेनेष्टवानसि न लोकप्राप्तय इत्यभिप्राय: । '२९९६ । करणे यजः
।३।२।८५।' इति भूते णिनिः । इतः प्रभृति भूत इत्यधिक्रियते । यतो
ब्रह्मनां पापसंमितः ब्रह्म हतवन्ति इति '२९९८ ब्रह्म - १३ । २१८७ ।' इत्यादिना
किप् । तेषां पापेन तुल्यः । कुतः । अन्यव्यासक्तवातित्वात् अन्यस्मिन् सुग्रीवे
व्यासक्तं मां हतवान् । '२९९७ । कर्मणि हनः । ३।२।८६ ।' इति णिनिः । तत्र
'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । 'यदि सुग्रीवेण मम विरोधः किं तवायात-
मिति कुत्सितहननम् ॥
 
तदेव दर्शयन्नाह -
 
४१८ - पाप कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः ॥
 
मार्मपापं दुराचार ! किं निहत्य ऽभिधास्यसि. १२७
 
पापकदित्यादि - हे दुराचार ! मामपापं निहत्य पापकृत् कृतकिल्विषः
राज्ञो दशरथस्य पुण्यकृतः सुतः सुकृतां मध्ये किमभिधास्यसि वक्ष्यसि । किं
क्षेपे । नकिंचिदभिधातव्यमस्तीति भावः । सर्वत्र २९९९। सुकर्म-पाप-।३।२।८९ ।'
इत्यादिना किप् ॥
 
४१९ - अग्नि चित् सोम - सुद् राजा रथ-चक्र - चिदाऽऽदिषु ॥
अनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता ॥
अग्निचिदित्यादि – कस्मात्त्वया पिता नापेक्षितः नानुवृत्तः । येनैवं कृत-
वानसीति । कीदृशः । अग्निचित् आहिताग्निः । अग्निं चितवानिति '३००१ । अझौ
चेः ।३।२।९१ ।' इति विप् । सोमसुत् सोमं सुतवान् सोमयाजी । '३००० । सोमे
सुञः ।३।२।९० ।' इति विप् । अनलेषु अग्निषु इष्टवान् । रथचक्र चिदादिषु
रथचक्रवचीयत इति ' ३००२ । कर्मण्यमयाख्यायाम् ।३।२।१२॥ इति विप् ।
 
१-१४८० । मृषा मिथ्या च वितथे ।" इति ना० अ० । २ – ९० । न कूटेरायुधैर्
हन्याद् युध्यमानो रणे रिपून् । न कर्णिमिर् नापि दग्धैर् नाग्नि-ज्वलित-तेजनैः ॥' '१०४ अमा-
ययैव वर्तेत न कथंचन मायया ।" मनुस्मृतिः अ० ७ । इत्यादिराजधर्मान् स्मारयन्नाह -छद्म-
तापसः' इति । '२३० कपटोsस्त्री व्याजदम्भोपथयश् छद्म- कैतवे ॥ ३ – '७१७ । चितवानग्नि-
मन्निचित् " इति ना० अ० ।
 
भ० का० १४