This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सुश्रीवाऽभिषेको नाम षष्ठः सर्गः- १५५
 
'२४५८ । इणो गा लुङि ।२।४।४५॥ '२२२३ । गाति-स्था । २।४।७७१' इति
सिचो लुक् । भ्रातरं युवन् अभिगच्छन् । '१११३ । यु अभिगमने' अस्यादादि-
कस्य वर्तमानसामीप्ये लटः शतारे उवङादेशे रूपम् । संख्ये युद्धे । भियो य
भीतेर्योक्ता कर्मणि पष्टी । भीतिं युञ्जन्नित्यर्थः । यजे: पूर्ववत् किन् । '३७६ । यु-
जेरसमासे ।७।१।७१।' इति नुम् । संयोगान्तलोपः । क्विन्प्रत्ययस्य कुः । इकारः ।
कः कमिव । सिंहो मृगमिव युवन् । घोपेण दिश: आपूरयन् । दिशन्ति इति
दिश: पूर्ववत् छिन् ॥
 
कलहायमानयोः
 
४१० - व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः ॥
वाणमु॑द्यतमा॑यंसीदि॑िक्ष्वाकु - कुल-नन्दनः ॥ ११९ ॥
व्यायच्छेत्यादि — तयोर्वालि सुग्रीवयोर्व्यायच्छ मानयोः
सहशयोः समानयोः भेढ़े पृथक्त्वे मूढो भ्रान्तः सन् इक्ष्वाकुकुलनन्दनो रामो
बाणमुद्यतं सज्जीकृतमासीत् उपसंहृतवान् । '२७४२ । समुदाभ्यो यमो ग्रन्थे
।१।३।७५।' इति तङ् न भवति । अकर्त्रभिप्रायत्वात् । तत्र 'कर्त्रभिप्राये' इति
वर्तते । '२६९५ । आङो यमहनः ।१।३।२८।' इत्यनेनापि न स्यात् सकर्मकत्वात्
तत्र 'अकर्मकात्' इति वर्तते । समानपूर्वस्य दृशेः 'समानान्ययोश्च' इत्युपसं-
ख्यानात् '४२९। त्यदादिषु ।३।२।६० ।' इत्यादिना कञ् । ८१०१७ । दृग्-दृश्-व-
तुषु । ६।३।८९।' इति समानस्य सभावः ॥
 
४११ ऋष्यमूकमगा॑त् क्लान्तः
कपिर् मृग-सदृग् द्रुतम् ॥
किष्किन्धाऽद्रिसदाऽऽत्यर्थ
 
निष्पिष्टः कोष्णर्मुच्छ्रसन् ॥ १२० ॥
 
ऋष्यमूकमित्यादि
 
कपिः सुग्रीवः किन्धाद्विसदा वालिना किं किं
दुधातीति किष्किन्धा गुहा । '२९१५ । आतोऽनुपसर्गे कः ।३।२॥३।' पारस्क-
रादिदर्शनात् पूर्वस्य सुडागमो मलोपः पत्वं च निपात्यते । तदुपलक्षितोऽद्भिः
किष्किन्धाद्रिः । तत्र सीदतीति '२९७५ । सत्सूद्विष - ।३।२।६१॥ इत्यादिना किप् ।
तेनात्यर्थं निप्पिष्टः पीडितः । निष्पिष्टत्वात् क्लान्तः सन् ऋष्यमूकं मृगसदृक्
द्रुतमगात् । समानोपपदात् दृशेः पूर्ववत् क्विन् । कोष्णमीषदुष्णमुच्छ्वसन् ।
'१०३३ । कवं चोष्णे । ६।३।१०७।' इति चकारात् कोः कादेशः ॥
४१२ - कृत्वा वालि दुहं रामो मालया स-विशेषणम् ॥
 
अङ्गद - स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे. १२१
कृत्वेत्यादि - वालिदुहं सुग्रीवम् । वालिनं द्रुह्यतीति ८२९७५ । सासू-
।३।२।६१॥' इत्यादिना किप् । मालया सविशेषणं सचिह्नं कृत्वा भेदपरिज्ञानार्थं
रामः अङ्गदवं वालिनम् । अङ्गदं सूत इति पूर्ववत् किन् । '२८१॥ ओः सुपि