This page has not been fully proofread.

१५४ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे प्रथमो वर्गः,
 
-
 
आढ्यमित्यादि – अनाढ्यमाढ्यं करोत्यनेनेति । '२२७३ । आध्य-सुन-
।३।२।५६।' इत्यादिना करणे ख्युन् । आट्यकरणं विक्रान्तं यस्य वालिनः । अना-
ढ्यः सन् विक्रान्तेनाढ्यो भूत इत्यर्थः । महिपस्य सुरद्विषो दुन्दुभेववं मरणं यः
कृतवान् दुष्करं कृच्छ्रसाध्यं प्रियकरणमिन्द्रस्य तुष्टिकरम् । अप्रियं प्रियं करोस-
नेनेति पूर्ववत् ख्युन् ॥
 
४०६ - प्रियं- भावुकतां यातस् तं क्षिपन् योजनं मृतम् ॥
स्वर्गे प्रियं-भविष्णुश् च कृत्स्नं शक्तो ऽप्येवाधयन् ॥
प्रियमित्यादि — तमेवं सुरद्विषं मृतं पादाङ्गुष्टेन योजनमध्वानं क्षिपन् प्रेर-
यन् । क्षिपेस्तौदादिकस्योभयपदिनो रूपम् । प्रियम्भावुकतां यातस्तथा स्वर्गे
ग्रियम्भविष्णुश्वासीत् । '२९७४ । कर्तरि भुवः । ३।२।५७१' इत्यनेनाट्यादिषूपपदेपु
खिष्णुच्खुकज । शक्तोऽपि समर्थोऽपि कृत्स्नं लोकमित्यर्थात् । अबाधयन् अपीड-
यन् । '१६५१। वध संयमे' इति चौरादिकः तस्य शतरि रूपम् । स ईदृशस्त्वया
शक्यो जेतुं यदि त्वदत्राणां सामर्थ्य दृष्टमित्यभिप्रायेणाब्रवीत् सुग्रीवः ॥
 
रामोऽपि तदभिप्रायं विन् यत् कृतवान् तदाह -
४०७ - जिज्ञासोः शक्तिम॑स्त्राणां रामो न्यून-धियः कपेः ॥
अभिनत् प्रतिपत्त्यर्थं सप्त व्योम - स्पृशस् तरून्. ४१६
जिज्ञासोरित्यादि – अस्त्राणां शराणां शक्ति जिज्ञासोः ज्ञातुमिच्छोः कपेः
सुग्रीवस्य न्यूनधियः स्वल्पवुद्धेः । यतः प्रमाणान्तरेणापरिज्ञानात् प्रत्यक्षेण ज्ञातु-
मिच्छतीति प्रतिपत्त्यर्थं संप्रत्ययार्थं रामः सप्त तरून् तालान् पङ्ख्या स्थितान्
एकेन शरेणाभिनत् व्योमस्पृशः । '४३२ । स्पृशोऽनुदके किन् ।३।२।५८।' ॥
१४०८ - ततो वालि- पशौ वध्ये राम-विंद्र - जित-साध्वसः ॥
 
अभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृ. ॥
तत इत्यादि —– ततस्तरभेदादनन्तरं सुग्रीवो आतुर्निलयमभ्यभूत् अभिभूत-
वान् । कीदृशः । दुष्ट धृष्टः । '३७३। ऋत्विग्- ।३।२।५९ । इत्यादिना निपातितम् ।
धृषेः किन् । द्विर्वचनम् । '३७७॥ किन्प्रत्ययस्य कुः । ८।२।६२ ॥ इति कुत्वं खकारः
चवं ककारः । यस्माद्वालिनि पशाविव वध्ये वधार्हे । रामेण ऋत्विजा याजकेन
जितसाध्वसः अपनीतसाध्वसः तस्माद्द्धृक् । ऋतौ यजति ऋतुं वा यजति
ऋतुप्रयुक्तो वा यजतीति ऋतुपूर्वाद्यजेः क्विन् । यजादित्वात् सम्प्रसारणम् ।
इदमृत्विक्शब्दनिर्वचनम् । रूढितस्तु याजयितृपु ब्राह्मणेपु क्विन्प्रत्ययस्य कुः ।
निनदन् किलकिलाशब्दं कुर्वन् ॥
 
४०९ - गुहाया निरगाद् वाली सिंहो मृगर्मिव ध्रुवन् ॥
 
-
 
भ्रातरं युङ् भियः संख्ये घोषेणा॑ ऽऽपुरयन् दि ॥
गुहाया इत्यादि — तस्य शब्दमाकर्ण्य गुहाया निरगाद्वाली निर्गतः ।