2023-02-15 17:22:11 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽमिषेको नाम षष्ठः सर्गः- १५३
४०२ - अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते ॥
चेतो वालि-वधं राम ! क्लेशापहमु॑पस्थितम् ॥ १११ ॥
अतीत्यादि — हे राम ! मदीयं चेतो वालिवधं कर्मीभूतमुपस्थितं प्राप्तं न
हि प्रतिपद्यते नैव प्रत्येति । यस्मात् कातरं व्याकुलम् । वालिनोऽतिबलयुक्त-
त्वात् । कीदृशं वधम् । क्लेशापहं दुःखस्योन्मूलकम् । पूर्ववड्डः । अतिप्रिय-
वालवधस्य । यस्य हि यत्प्रियं तत्सिद्धमपि असौ न प्रत्येति ॥
इति डाधिकारः ॥
उपस्थितोऽस्य वध इति कथं ज्ञायत इत्याह-
४०३ - शीर्ष - घातिनमा॑यातमरीणां त्वां विलोकयन् ॥
पतघ्नी-लक्षपेतां मन्येऽहं वालिनः श्रियम्. ११२
शीषैत्यादि–अरीणां शोर्पघातिनम् । ८२९६८ । कुमार-शीर्पयोणिनिः
।३।२।५१॥ इति निपातनात् शिरसः शीर्षभावः । आयातं विलोकयन् वालिनः
श्रियं पतिघ्नीलक्षणोपेतामहं मन्ये । पति हन्ति यल्लक्षणं तेनोपेतामिवेतीवार्थोऽत्र
दृष्टव्यः । '२९७०। अमनुष्यकर्तृके च । ३।२।५३।' इति ठक् । '२३६३॥ गमहन-
।६।४।९८।' इत्युपधालोपः । '३५८। हो हन्तेः- ।७।३।५४॥ इति कुत्वम् ॥
४०४ - शत्रुघ्नान् युधि हस्तिनो
गिरीन् क्षिप्यन्न कृत्रिीमान् ॥
शिल्पिभिः पाणिघैः क्रुद्धस्
त्वया जय्यो ऽभ्युपाय-वान् ॥ ११३ ॥
शत्रुघ्नानित्यादि – किञ्च युधि संग्रामे वाली त्वया जय्यः जेतुं शक्यो यदि
युष्मदस्त्राणां शक्तिर्दृष्टा तां च द्रष्टुमिच्छामीति वक्ष्यमाणाभिप्रायः । '६५॥
क्षय्यजय्यौ शक्यार्थे ।६।१।८१।' इत्ययादेशनिपातनम् । कीदृशः । अभ्युपायवान्
युद्धोपाययुक्तः । 'किं कुर्वन् । क्रुद्धः क्षिप्यन् गिरीन् । दिवादित्वाच्छयन् । अकृत्रि-
मान् देवनिर्मितान् । शत्रुघ्नान् शत्रून् हन्तीति । '२९७० । अमनुष्य । ३।२।५३॥
इति ठक् । हस्तिघ्न इव हस्तिनः हन्तुं शक्तः । १२९७१॥ शक्तौ हस्ति- कपाटयोः
३।२।१४॥ इति सूत्रस्य मनुष्यकर्तृकार्यारम्भकत्वात् । वाली चामनुष्यः ।
शिल्पिभिर्युद्धकुशलैः वानरैः सह क्षिप्यन् । सहार्थस्य गम्यमानत्वात् सहयोगे
तृतीया । पाणिघैः पाणिवादकैः । ते हि हस्तियुद्धेऽन्यस्य वाद्यस्यासंभवात्
हस्तिमुखमेव वादयित्वा गिरीन् प्रहरणान् क्षिप्यन्ति । '२९७२ । पाणिध-ताडघौ
शिल्पिनि ।३।२।१५।' इति कर्तरि निपातनम् ॥
४०५ - आठ्यं करण - विक्रान्तो महिषस्य सुरद्विषः ॥
प्रियं-करणमिन्द्रस्य दुष्करं कृतवान् वधम् ॥ ११४॥