This page has not been fully proofread.

१५० भट्टिकाव्ये द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथगो वर्गः,
 
टयोः - ।३।२।३६।' इति खश् । तां हृतां मृगयावहे गवेषयावः । २०४६। मृग
अन्वेषणे' स्वार्थिकण्यन्तः । युवयोः पौरुपान्वितत्वात् कथं हृतेत्याह-लेन छद्मना ॥
त्वं पुनः कस्य बेत आह-
WASYO
 
३९० - प्रत्यूचे मारुती रामम्-'अस्ति वालीति वानरः ॥
शमयेदपि संग्रामे यो ललाटं तपं रविम् ॥ ९९ ॥
 
प्रत्यूच इत्यादि — रामं मारुतिः प्रत्यूचे प्रत्युक्तवान् । अस्ति वालीति
नाम्ना कपीश्वरः यः संग्रामे युद्धे ललाटन्तपं सर्वेषामुपरि वर्तमानं रविं पूर्ववत्
खश् । शमयेत् पराजयेदिति सम्भावने लिङ् । वालिशब्दो नान्तः इदन्तश्च ।
तथा च 'वाली वालिश्च कथ्यते' इति शब्दभेदः ॥
 
३९१ - उग्रं पश्येन सुग्रीवस् तेन भ्राता निराकृतः ॥
 
3
 
तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशं बदः, १००
उन्नम्पश्येने त्यादि — तेन भ्राता उग्रम्पश्यता पापं विजानता । '२९५२
उग्रम्पश्य-।३।२।३७।' इत्यादिना निपातितम् । यश्च सुग्रीवो निराकृतोऽभिभू-
तस्तस्य हि दूतः प्राप्तोऽस्मि । वशंवदः । वशमनुकूलं वदतीति वशंवदुः ।
'२९३५। प्रिय -वशे वदः खच् ।३।२।३८ ।' कीदृशस्य । मित्रीयतो मित्रमिच्छतः ।
'२६५७ । सुप आत्मनः क्यच् ।३।१॥८॥ ॥
 
किं तेन सख्येति चेदाह-
,
 
३९२ - प्रियं वदो ऽपि नैवा॑ ऽहं ब्रुत्रे मिथ्य परं-तप ! ॥
सख्या तेन दश ग्रीवं निहन्तासि द्विपं तपम् ॥१०१॥
 
प्रियंवद इत्यादि - प्रियंवदतथा लोको मिथ्या वदति । अहं प्रियंवदोऽपि
नैव मिथ्या ब्रुवे वदामि । पूर्ववत् खच् । परन्तप शत्रूणामुपतापयितः । २९५४ ।
द्विषत्-परयोः- ।३।२।३९॥ इति खच् । तेन सुग्रीवेण सख्या मित्रेण दशग्रीवं
निहन्तासि हनिष्यसि । हन्तेर्लुटि रूपम् । कीदृशं द्विपन्तपम् । शत्रूणामुपतापयि-
तारम् । पूर्ववत् खच् ॥
 
३९३ - वाचं - यमोऽहम॑नृते सत्यमेतद् ब्रवीमि ते ॥
 
एहि, सर्व-सहं मित्रं सुग्रीवं कुरु वानरम् ॥ १०२ ॥
वाचंयम इत्यादि – '२९५७ वाचंयम- पुरन्दरौ च ।६।३।६९ । ' इति मुमा-
गमो निपात्यते । तस्मात् सत्यमेतत् पूर्वोक्तम् । ब्रवीमि ते तुभ्यम् । ताद
 
-
 
१ – ११३८ । सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष
धर्मः सनातनः ॥' मनुस्मृतिः अ० ४ । इति मर्म जाननाह - 'नैवाऽहं ब्रुवे मिथ्या' इत्यादि ।
२-७४९। तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः ।" इति ना० अ० ।