2023-02-15 17:22:10 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षाढ़ः सर्गः- १४९
२९४६ । उदि कुले - १३॥२॥३१॥
इति खश । गजैः कूलमुद्रुजैः कूलं भिन्दद्भिः कथं नासादितौ न व्यापादितौ इति
ब्रूतं कथयतम् ॥
स्त्रासकरीः यतः कूल मुद्दहाः कूलमापूर्व वहन्त्यः ।
३८७ - रामो ऽवोचर्द्धनूमन्तम्
'आवाम॑त्रं लिहं गिरिम् ॥
ऐव विद्वन् ! पितुः कामात्
-
पान्तावल्पं पचान् मुनीन् ॥ ९६ ॥
राम इत्यादि – हनुर्वदनैकदेशः स निन्दितोऽस्यास्तीति निन्दायां मतुप् ।
'३५३९। अन्येषामपि दृश्यते ।६।३।१३७।' इति दीर्घः । 'हनुमान् हनुमानपि'
इति विश्वदर्शनात् । तत्य किल जातमात्रस्य आदित्यरथं गृह्णतो हनुद्रयं भग्नमिति
श्रूयते । तं रामोऽदोवत् उक्तवान् । तत् किमियाह - हे विद्वन्, यदमुं गिरि-
मावामैव आगतौ तत् पितुः कामादभिप्रायात् । आङ्पूर्वादिणो लङि रूपम् ।
अश्रंलिहमुच्चैस्तरम् । अञं लेढीति '२९४७ । वहाभ्रे लिहः । ३॥२।३२।' इति
खश । किं कुर्वाणौ । पान्तौ रक्षन्तौ । मुनीन् अल्पम्पचान् अल्पसन्तुष्टान् । अल्पं
पचन्तीति २९४९ । मितनखे च ।३।२॥३४॥' इति मितेत्यर्थग्रहणात् खश ।
चकारस्यानुक्तसमुच्चयार्थत्वाद्वा ॥
कः पुनः पिता यदादेशादागतावित्यत आह -
३८८ - अ - मितं - पचमीशानं सर्व-भोगीणमुत्तमम् ॥
आवयोः पितरं विद्धि ख्यातं दशरथं भुवि ॥ १७ ॥
अमितम्पचमित्यादि — आवयोः पितरं दशरथनामानं भुवि विख्यातं
विद्धि जानीहि । '२४२५। हु-झलभ्यो हेर्धिः ।६।४।१०१॥' अमितम्पचं महास-
त्रिणं पूर्ववत् खश मुम् च । ततो नसमासः । ईशानमीशनशीलं स्वामिनमि-
त्यर्थः । '३१०९ । ताच्छील्य । ३।२।१२९।' इत्यादिना चानश् । सर्वभोगीणं
सर्वसच्चभोगाय हितम् । '१६७० । आत्मन् विश्वजन - ।५।१।९।' इति खः । भोग-
शब्दोऽत्र शरीरवाची । १९७ अट्-कुप्वाङ्- ।८।४।२।' इत्यादिना णत्वम् ॥
यदि पितुरादेशादागतौ किमत्र गमनेनान्वेषयथ इत्याह -
३८९ - छलेन दयिता करण्याद् रक्षसा ऽरूं तुदेन नः ॥
अ- सूर्य-पश्यया मूर्त्या हता, तां मृगयावहे.' ॥ ९८ ॥
छलेने त्यादि — नोऽस्माकं दयिता अरण्याद्वाक्षसेन हृता । कीदृशेन । अरु-
न्तुदेन मर्मस्पृशा । '२९५० । विध्वरुषोस्तुदः ।३।२।३५॥ इति खश् । मुम् ।
असूर्यम्पश्यया आदित्यगोप्यया मूर्त्या शरीरेणोपलक्षिता । '२९४१ । असूर्य-लला-
१–१४४६ । इच्छामनोभवौ कामौ ।' इति ना० अ० ।