This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १४७
दिना कर्मधारयः । पुनः कीदृशम् । शोकापनुदं शोकमपनुदति । '२९१९ । तुन्द
शोकयोः - ।३।२॥५॥' इति कः । अव्यग्रं सुचित्तमित्यर्थः ॥
३८० - विश्वास-प्रद-वेपो ऽसौ पथि प्रज्ञः समाहितः ॥
चित्त-संख्यो जिगीषूणामुत्पपात नभस्तलम् ॥८९॥
विश्वासेत्यादि-- असौ मारुतिनभस्तल मुत्पपात । विश्वासं प्रददातीति
विश्वासप्रदः । '२९२० । ये दाज्ञः । ३।२।६॥ इति कः । विश्वासप्रदो वेषो यस्य
भिक्षुवेष इत्यर्थः । वेष्यते आत्मानेनेति ३१८८१ अकर्तरि च कारके - ।३।३।१९॥
इति घञ् । '११७० । विप् व्याप्त इत्यस्य रूपम् । पन्थानं प्रजानातीति पथि-
प्रज्ञः समाहितः अभ्रान्तचित्तः 'इदमादिष्टं इदं च मया तत्र वक्तव्यम्' इति ।
जिगीपूणां जेतुमिच्छताम् । चित्तसंख्यः चित्तं संख्याति परिच्छिनत्तीति '२९२१ ।
समि ख्यः । ३।२।७।' इति कः ॥
 
३८१ – सुरा-पैरि॑िव घूर्णद्भिः शाखिभिः पवना॒ऽऽहतैः ॥
 
ऋष्यमूकम॑गाद् भृङ्गैः प्रगीतं साम-गैरव ॥ १० ॥
सुरापैरित्यादि —मारुतिर्ऋष्यमूकमगात् । शाखिभिरुपलक्षितम्। धूर्णद्भिः
कम्पमानैः पवनाहतत्वात् । अत एव सुरापैरिव मत्तैरिव । '२९२२ । गापोष्टक्
।३।२।८।' इत्यत्र 'पिबतेः सुरा- शीध्वोः' इति टफ् । प्रगीतं प्रगीयतेऽन्नेति ।
अधिकरणे क्तः । कैर्भृङ्गैः सामगैरिव सामवेदपाठकैरिच । साम गायन्तीति '२९२२॥
गापोष्टक् ।३।२।८।' ॥
 
३८२ - तं मनो-हरमा॑गत्य गिरिं वर्म- हरौ कपिः ॥
 
M
 
वीरौ सुखा ssहरो ऽवोचद् भिक्षुर् भिक्षार्ह-विग्रहः ॥
तमित्यादि
— ऋष्यमूकं गिरिमागत्य कपिवरौ रामलक्ष्मणौ अवोचत् उक्त-
वान् । कीदृशम् । मनोहरं रम्यत्वात् । मनो हरतीति '२९२३ । हरतेरनुद्यमनेऽच्
।३।२।९।' वर्महरौ कवचं हर्तुं क्षमौ । संभाव्यमानवयसावित्यर्थः । '२९२४ । वयस
च । ३।२।१०।' इत्यच् । सुखाहरः सुखाहरणशीलः । '२९२५॥ आङि ताच्छील्ये
।३।२।११।' इत्यच् । भिक्षुः परिव्राङ्केषः न कपिरूपः यतो विश्वासप्रदद्वेष इत्युक्तम् ।
भिक्षार्ह विग्रहः भिक्षायोग्यशरीरः कृशत्वादित्यर्थः । भिक्षामर्हतीत्यच् ॥
३८३ - 'बलिनावमुद्रीन्द्रं युवां स्तम्वे रमावि॑व ॥
 
आचक्षाथां मिथः कस्माच्छेङ्करेणा॑ ऽपि दुर्गमम् ॥ ९२॥
 
१ – ८८२९ । तनुत्रं वर्म दंशनम् ।' २ - '६३४ । अथ कलेवरम् । गात्रं वपुः संहननं शरीरं
वर्ष्म विग्रहः ॥ ३–७९९ । दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ॥ मतङ्गजो गजो
नागः कुञ्जरो वारणः करी । इभः स्तम्बेरमः पद्मी ।" इति ना० अ० ॥