This page has not been fully proofread.

१४६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
-
 
शु-सृ-ल्वः समभिहारे - 1३११११४९ ।' इति । तत्र समभिहार सका
रित्वोपलक्षणार्धम् ॥
 
""
 
३७७ - तौ वालि- प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः ॥
'वन्धुना विगृहीतोऽहं भूयासं जीवकः कथम् ' ॥८६॥
तावित्यादि – तौ रामलक्ष्मणौ वालिनः प्रणिधी चरौ भत्वा सुग्रीवः कपि-
रचिन्तयत् चिन्तितवान् । प्रणिधीयते नियुज्यते कार्येषु प्रणिधिः । '३२७०।
उपसर्गे धोः किः ।३।३।१२॥ बन्धुना भ्रात्रा विगृहीतो विरोधितः सन् कथं
जीवको भूयासमिति । आशंसायां लिङ् । जीवेः '२९१२ । आशिषि च ।३।११-
१५०।' इति कुन् ?
 
इति निरुपपदकदधिकारः ।
 
इतः प्रभृति '७८१॥ तत्रोपपढ़ सप्तमीस्थम् । ३।१।९२॥ इति अस्योपस्थापनेन
कृतो दर्शयन्नाह -
 
३७८-स शत्रु लावौ मन्वानो राघवौ मलयं गिरिम् ॥
 
जगाम स-परीवारो व्योम-मायमि॑िवत्थितम् ॥ ८७ ॥
स इत्यादि-
इस सुग्रीवः सपरीवारः सपरिकरः । '१०४४ । उपसर्गस्य धजि-
।६।३॥२२।' इति दीर्घः । कपीनाममनुष्यत्वात् । मलयं गिरिं जगाम । राववौ
शत्रुलावौ शत्रून् लुनातीति २९१३ । कर्मण्य । ३।२।१॥ शत्रूणामुन्मूलकाविति
मन्वानोऽवगच्छन् । '१५६६। मनु अवबोधने ।' इत्यस्मादात्मनेपदिनः '२४६६।
तनादिकृञ्भ्य उः ।३।१।७९। व्योममायमिवोत्थितं व्योम आकाशं मिमीत
इति ८२९१४॥ ह्वावामश्च ।३।२।२।' इत्यण् । नभः परिच्छेत्तुमिवोत्थितं
किय प्रमाणमस्येति ॥
 
३७९ - शर्म दं मारुतिं दूतं विषम स्थः कपि- द्विपम् ॥
 
.
 
शोकऽपनु॒दम॑ व्यग्रं प्रायु कपि- कुञ्जरः ॥ ८८ ॥
शर्मदमित्यादि-कपिकुअरः सुप्रीवः हनूमन्तं दूतं प्रायुद्ध प्रस्थापित-
वान् '७४१॥ वृन्दारक-नाग- कुञ्जरैः-।२।१।६२।' इत्यादिना कर्मधारयः सः ।
वृत्तान्तं ज्ञातुमित्यर्थात् प्रायुत इति '२७३५ । प्रोपाभ्यां युजेः- ।१।३।६४।'
इत्यात्मनेपदम् । '२५४३ । रुधादिभ्यः श्रम् ।३।१।७८ । कपिकुञ्जरः किम्भूतः ।
विषमे दुर्गपर्वते तिष्ठतीति विषमस्थः । '२९१६। सुपि स्थः ।३।२।४।' इति
कः । मारुतिं कीदृशम् । शर्म कल्याणं ददातीति शर्मदः । '२९१४ । आतोऽनुप-
सर्गे कः । ३।२।३।' इति कः । श्रेष्टत्वमाह । कपिद्विपं कपिश्रेष्ठम् । द्वाभ्यां पिब-
तीति द्विपः । कपिरयं द्विप इव । '७३५ । उपमितं व्याघ्रादि ।२।१॥५६॥ इत्या-
– १७७६ । यथार्हवर्णः प्रणिधिरंपसर्पश् चरः स्पशः । चारश् च गूढपुरुषः ॥ इति
 
:
ना० अ० ।