This page has not been fully proofread.

१४४ भट्टि - काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
३७० - ददैर् दुःखस्य माहग्भ्यो धायैरामोदर्मुत्तमम् ॥
 

 
लिम्पैरिव तनोर वातैश चेतयः स्याज् ज्वलो न कः.
ददै रित्यादि – वातैर्ददैः दुःखस्य दुःखं ददद्भिः । केभ्यः । मादृग्भ्यः । अस्सा-
दृशेभ्यो विरहिभ्यः । '४२९ । यदादिपु दशोऽनालोचने कञ्च ॥३।२।६० ।' इति
क्किन् । '१०१७। दृग्–श - चतुषु ।६।३।८९१ । ' इत्याकारः । धायैरामोदमुत्तमं
आमोदं प्रियासङ्गमेन हर्ष यावरहियो दत्तस्य दुःखस्य धायैः पोषकैरियर्थः ।
उत्तममिति क्रियाविशेषणम् । उत्तममामोदं धायैः कुसुमानां परिमलं धारय-
द्भिरिति व्याख्याने अनित्यत्वात् कृत्प्रयोगे कर्मषष्ट्यभावः । लिम्पैरिव तनोः शरीरं
लिम्पनिर । वर्हेतुभिः । को नाम विरहाग्निना यश्चेतयमानः ज्वलन्ननिरिव
न स्यात् । किन्तु भवेदेवेति भावः । दुदैर्धायैरिति २९०३ । श्याव्यधा । ३।११-
१४१॥ इति आकारान्तलक्षणे शे प्राप्ते ' २९०१ । ददाति दधात्योः । ३ । १ । १३९ । '
इति शाणों भवतः । शे आतो लोपः । णे चातो युक् । लिम्पश्चेतय इति
'२९००। अनुपसर्गात्- । ३।१।१३८ ।' इति शः । ज्वल इति ' २९०२ । ज्वलिति-
कसन्तेभ्यो णः ।३।१।१४० ।' इति णस्य विकल्पनात्पचाद्यच् ॥
३७१ - अवैश्याय काऽऽस्रावाश् चारु-मुक्का-फल- त्विषः ॥
कुर्वन्ति चित्त संस्रावं चलत् पर्णाऽग्र-संभृताः ॥ ८० ॥
 
अवश्यायेत्यादि —– अवश्यायत इत्यवश्यायः । तस्य कणा विन्दवः । आस्र-
वन्तीत्याखावाः क्षरन्तः । '२९०३ । इयाव्यधा-।३।१।१४१॥ इति णः कर्तरि ।
तयोविंशेषणसमासे राजदन्तादित्वात्परनिपातः । ते कुर्वन्ति चित्तसंस्रावम् ।
संस्रवतीति संस्रावः । पूर्ववत् णः । चित्तं संस्रावं चलत्कुर्वन्ति इत्यर्थ: । पूर्ववत्
समास - परनिपातौ । कीदृशाः, चलत्पर्णाग्रसंभृताः संगलिताः । अत एव चारु.
मुक्ताफलत्विषः दर्शनीयमुक्ताफलानुकारिणः । सीताहारस्थमुक्ताफलानि स्मार-
यन्तीत्यर्थः ॥
 
३७२ - अवसायो भविष्यामि दुःखस्या॑ ऽस्य कदा न्व॑हम् ॥
न जीवस्या॑ ऽवहारो मां करोति सुखिनं यमः ॥ ८१ ॥
अवसाय इत्यादि - कदा नु काले अहं दुःखस्यानुभूयमानस्य अवसायो-
उन्तकरो भविष्यामि येन जीवस्यावहारोऽवहर्ता यमो मां सुखिनं न करोति
मारयतीत्यर्थः । अवस्यति इति अवसाय: । '१२२२ । षोऽन्तकर्मणि' । अवहर-
तीत्यवहारः । '२९०३ । श्याच्यघा - ।३।१।१४१॥ इति सर्वत्र णः । युक् ॥
३७३ - दह्ये ऽहं मधुनो हैर् दारुयैर् यथा गिरिः, ॥
 

 
नायः कोऽत्र स, येन स्यां वता॑ ऽहं विगत-ज्वरः ॥८२ ॥
 
१-१०१ अवश्यायस तु नीहारस तुषारस् तुहिनं हिमम् । प्रालेयं मिहिका
न्च । इति ना० अ० ।