2023-02-15 17:22:09 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १४३
८ १०२८ । रथ वयोश्च । ६।३।१०२।' इति कोः कढ़ादेशः 1 दयितायां सत्यां
मधुरमलापमासीदित्यर्थः
॥
३६७ - पक्षिभिर् वितृदैर् यूना
शांखिभिः कुसुमो॒त्किरैः ॥
अ-ज्ञो यो, यस्य वा नो ऽस्ति
प्रियः, प्रग्लो भवेन् न सः ॥ ७६ ॥
पक्षिभिरित्यादि – '१५४० । उत्तृदिर हिंसाऽनादरयोः ।' इत्यस्मादिगुप-
लक्षणः कः । यूना वितृढैः हिंसकैः पक्षिभिः शाखिभिवृक्षैश्च । ब्रीह्मादित्वा-
दिनिः । कुसुमोत्किरैः । उत्किरन्ति उत्क्षिपन्तीत्युत्किराः । पूर्ववत्कः । कुसुमा-
नामुत्किराः । कृद्योगलक्षणां पष्ठीं विवाय समासः । तैर्हेतुभूतैः करणभूतैर्वा
स प्रग्लो न भवेत् । प्रकर्पेण ग्लायते प्रग्लः । २८९८ आतश्चोपसर्गे ।३।१।-
१३६ ।' इति कः । योऽज्ञः गुणदोषानभिज्ञः । जानातीति ज्ञः । पूर्ववत्कः । यस्य
वा प्रियो जनो नास्ति तस्य प्रयोजनाभावः सर्वत्र विवेकित्वात् । प्रीणातीति
प्रियः । पूर्ववत् कः ॥
३६८ - ध्वनीनार्मुद्धमैरैभिर् मधूनार्मुद्धयैर् भृशम् ॥
आजिप्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम् ॥७७॥
ध्वनीनामित्यादि - पतगैर्भ्रमरैग्लपिताः पीडिताः वयम् । 'ग्ला-स्ना-व-
नु-वमां च ' इति मित्त्वात् हस्खः । 'पतेरङ्गच् पक्षिणि' इत्यौणादिकः । कीदृशैः ।
ध्वनीनामुद्धमैः ध्वनीन् कुर्वद्भिः । १२३६०। पात्रा-ध्मा - ।७।३।७८।' इति धमा-
देशः । मधूनामुद्धयैः मधूनि पुनः पुनः पिबद्भिः । ९६८ । धेट् पाने' इत्यस्याया-
देशः । आजित्रैः पुष्पगन्धानां पुष्पगन्धान् जिद्भिः । पूर्ववजिघ्रादेशः । सर्वत्र
'२८९९ । पा-घ्रा ध्मा - वेट्-दृशः शः । ३।१।१३७।' इति शः । कृद्योगलक्षणा पष्ठी ॥
३६९ - धारयैः कुसुमा॑मो॒णां पारयैर् बाधितुं जनान् ॥
शाखिभिर् हा हता भूयो हृदयानामुदेजयैः ॥ ७८ ॥
धारयैरित्यादि - हा कष्टं शाखिभिर्दुमैर्भूयोऽत्यर्थं वयं हताः । कीदृशैः ।
हृदयानामुदेजयैः चेतसामुकम्पकैः । धारयैः कुसुमोमणां कुसुमनिचयान् धार-
यद्भिः । जनान् मद्विधान् बाधितुं पीडयितुं पारयद्भिः समः । १९६६। ट्ञ्
धारणे', '११६०। यूँ पालन-पूरणयोः', '२३३। एजूँ कम्पने च ।' एभ्यो णिजन्ते-
भ्यः '२९००। अनुपसर्गाल्लिम्प - विन्द - 1३।१११३८ ।' इत्यादिना शः ॥
१ – '३५३ । वृक्षो महीरुहः शाखी विटपी पादपस् तरुः । अनोकहः कुट: शाल: पलाशी
द्रु-द्रुमागमाः ॥ इति ना० अ० ।