2023-02-15 17:22:09 by ambuda-bot
This page has not been fully proofread.
१४२ भट्टि काव्ये - द्वितीयेऽधिकार
काण्डे लक्षण-रूपे प्रथमो वर्गः,
नन्दनानीत्यादि – तत उक्तादनन्तरं वीरौ राघवी राजलक्ष्मणौ वनाई
भेजतुः सेचितवन्तौ । एत्वाभ्यासलोपौ ' २३०१ । तृ-फल-।६॥४।१२२।' इत्या
दिना । पाम्पानीति पम्पाया अदूरम् । १२८२॥ अदूरभवश्च ।४।२।७० इय
ण् । मुनीन्द्राणां नन्दनानि प्रमोदकारीणि । वनौकसां वनेचराणाम् । '१३०२
उच्च समवाये ।' अस्मादौणादिकोऽतुम् । पृषोदरादित्वाद्वर्णविपर्ययः । वनमोको
येषां तेषां रमणानि रतिजनकानि । '२८९६ । नन्दि - । ३।१।१३४ ।' इत्यादिना
ल्युः । कर्मणि षष्टी ॥
३६४–'भृङ्गाऽऽली-कोकिल-क्रुद्भिर्
वाशनैः पश्य लक्ष्मण ! ।
रोचनैर् भूषितां पम्पा-
॥
म॑स्माकं हृदयाविधम् ॥ ७३ ॥
"
भृङ्गालीत्यादि – हे लक्ष्मण ! पम्प पश्य । अस्माकं हृदयाविधम् । चेत:-
पीडयन्तीम् । हृदयं विध्यतीति कि । '२४१२ । ग्रहि ज्या । ६।१।१६।' इत्या-
दिना संप्रसारणम् । '१०३७ । नहि वृति । ६।३।११६ । इति पूर्वपदस्य दीर्घः ।
भूषितां । काभिः । भृङ्गालीभिः भ्रमरपतिभिः । कोकिलैः । क्रुभिः क्रौञ्चः ।
वाशनैः कूजद्भिः । रोचनैः शोभनैः । क्रुङ् इति ' ३७३ । ऋत्विग्- । ३।२।५९ ।
इत्यादिना क्किन् । निपातनसामर्थ्यादनुनासिकलोपाभाव: । '५४ । संयोगान्तस्य
लोपः ।८।२।२३।'। '३७७ । क्विन्प्रत्ययस्य - ।८।२।६२॥ इति कुत्वम् ॥
३६५ - परिभावीणि ताराणां पश्य मन्थीनि चेतसाम् ॥
उद्भासीनि जले- जानि दुन्वन्त्यै दयितं जनम् ॥७४॥
परिभाचीणीत्यादि –जलेजानि पद्मानि पश्य । १९७२ । तत्पुरुषे कृति-
।६।३।१४।' इत्यादिनाऽलुक् सप्तम्याः । उद्भासीनि भासमानानि । अत एव
ताराणां परिभावीणि तिरस्कर्तॄणि । ततश्चेतसा मन्थीनि पीडाकराणि । अतो
जनमदयितं प्रियारहितं दुन्वन्ति । १३३६ । टुहुँ उपतापे सौवादिकः । मन्थो-
द्भासपरिभूभ्यो ग्रहादित्वाणिनिः ॥
३६६ - सर्वत्र दयिताऽधीनं॑ सुव्यक्तं रामणीयकम् ॥
येन जातं प्रिया॒ऽपाये कद् वदं हंस- कोकिलम् ॥ ७५॥
सर्वत्रेत्यादि – हे लक्ष्मण ! सर्वत्र यत्किञ्चिद्रामणीयकं रमणीयस्य भावः ।
' १७९७ । योपधात्- ।५।१॥३२।' इति वुञ् । तत्सर्वं दयिताधीनं दयिताय-
तम् । '२०७९॥ अषडक्ष- ५॥४॥७॥' इत्यादिनाध्युत्तरपदात्खः । सुव्यक्तं स्पष्टम् ।
कुतः । प्रियाया अभावे सति हंसकोकिलं हंसाश्च कोकिलाश्चेति शकुनिश्वात्
त्वम् । कद्वदं कुत्सितप्रलपितं वदतीति पचाद्यच् । कुत्सितं वदतीति