2023-02-15 17:22:09 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १४१
नायस्यसीत्यादि — तपस्यन्ती तपश्चरन्ती कञ्चिन्नास्यसि न खिद्यसे ।
तपश्चरणशीलीभूतेत्यर्थः । '२६७१। कर्मणो रोमन्थ ।३।१।१५।' इति क्यङ् ।
'तपसः परस्मैपदं च । गुरून् आचार्यादीन् सम्यक् यथावदनुवृत्त्याऽतूतुषः
तोषितवत्यसि । तुषेर्ण्यन्तस्य लुङि रूपम् । चडि णिलोपादि । यमान्मृत्योर्नो-
दुविजिष्टाः नाभैषीः । पुण्यकृतां न मृत्युभयमित्यर्थः । ओविजेरात्मनेपदम् ।
लुङि सिच इट् । '२५३६। विज इट् ।१।२।२।' इति सिचो ङित्वे न गुणः ।
निजायात्मीयाय तपसे । अतुषः तुष्टवत्यसि । '२३४३ । पुपादि-।३।१।५५॥' इत्यङ् ॥
३६१ - अर्थाऽर्घ्यं मधुपर्काऽऽद्यमु॑पनीया॑ ऽऽदराद॑सौ ॥
H
अर्चयित्वा फलैरच्या सर्वत्रा ऽऽख्यदनामयम् ॥ ७० ॥
अथेत्यादि – अथानन्तरमसौ शबरी अर्ध्यमर्घार्थम् । '२०९३ । पादार्घाभ्यां
च । ५।३।२५॥ इति यत् । मधुपर्काद्यम् । दधिमथुमिश्रमुदकं मधुपर्कः तदाद्यं
आदौ भवमाद्यं तदुपनीयादरात् फलैरर्चयित्वा । अच्यौं अर्चनाहौं ण्यत् । राम-
लक्ष्मणौ सर्वत्रोकेषु अनामयं कल्याणं आख्यत्कथितवती । '२४३८ । अस्थति-
।३।१।५२।' इत्यङ् ॥
इति प्रकीर्णकाः ।
अतः परं कृदधिकारः -
अथ कृदधिकारमाह- कृत्यानां कृदन्तर्भावेऽपि भावकर्मणोः कृत्या इति
विशेषप्रतिपादनार्थः पृथगधिकारः । शेषास्तु कृतः कर्तरि भवन्ति '७८ १ । तत्रोपपदं
सप्तमीस्थम् । ३।१।९२।' इत्येतदधिकृतम् । यत्रैतन्नावतिष्ठते तान् कृतो दर्शयन्नाह -
३६२ - 'सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः ॥
त्याह-
द्रुतं द्रष्टासि मैथिल्याः,' सैवर्मुक्त्वा तिरो ऽभवत् ॥
सख्यस्येत्यादि — सा शबरी तिरोऽभवदन्तर्भूता । एवमुक्त्वा । किं तदि-
इ - तव सख्यस्य सखित्वस्य । ८ १७९१ । सख्युर्यः ।५।१।१२६ । कर्मणि
षष्ठी । कारक: सुग्रीवः । २८९५ । - तृचौ ।३।१।१३३।' इति ण्वुल । त्वया
सह मैत्रीं करिष्यति । कपिनन्दनः कपीनां नन्दयिता । २८९६ । नन्दि अहि-
।३।१।१३४।' इत्यादिना ल्युः । कृद्योगे षष्ठी । ततो द्रुतं द्रष्टासि मैथिल्याः ।
पूर्ववत्कर्तरि तृच् कर्मणि षष्ठी । असीति वर्तमाने लट् ॥
३६३ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ॥
वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ ॥७२॥
१ – '६१३ । अनामयं स्यादारोग्यम् । इति ना० अ० ।