2023-02-15 17:22:08 by ambuda-bot
This page has not been fully proofread.
१४० भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
न प्रणाय्य इत्यादि महानुदयः स्वर्गापवर्गाणां यस्याः सा तथा हे महो-
दये ! देवकार्यविधाताय देवकार्य विहनिष्यामीति । '२१८० । भाववचनाच
।३।३।११।' इति भविष्यति घञ् ॥५८२ । नुमर्थाच्च भाववचनात् ।२।३।१५॥ इति
चतुर्थी । प्रणाय्योऽसंमतो जनः । २८८९॥ प्रणाय्योऽसंमतौ ।३।१॥२८।
इति निपातितम् । कञ्चित् निकाय्यं गृहं ते तव नाधितिष्ठति नाधिवसति ।
'२८९०। पाय्य - ।३।१।१२९।' इत्यादिना निवासे चिनोतेर्निपूर्वात् ण्यदायादेशौ
आदेः कुत्वं च । '५४२ । अधि-शीङ्- स्थाऽऽसां कर्म ।१।४।४६ ।' इति कर्मसंज्ञा ।
धर्मद्रोही धर्मद्रोहशीलः ॥
३५८ - कुण्ड पाय्यत्वतां कच्चिदग्निचित्या-वतां तथा ॥
कथाभी रमसे नित्यमुपचाय्य वतां शुभे ! ॥ ६७ ॥
कुण्डपाय्यवतामित्यादि — कुण्डेन पीयतेऽत्र ऋतौ कुण्डपाय्यः ऋतुः ।
'२०९१ । ऋतौ कुण्डपाय्य - संचाययौ ।३।१।१३०। ' इति निपातितम् । कञ्चित्क-
थासी रमसे । '१७४ । ढलोपे-।६।३।११। इति दीर्घः । तथाग्निचित्यावतां
आहिताग्निकानां कथाभी रमसे । २८९३ । चित्यानिचिये च ।३।१।१३२।' इति
निपात्यते । अग्निचयनमन्निचित्या । भावे क्यप् । तुक् । तद्वतां यथोपचाय्यवतां
उपचीयते इत्युपचाययोऽग्निः । २८९२ । अग्नौपरिचाय्य - ।३।१।१२१।' इति
निपातितः । उपपूर्वाच्चिनोतेर्ण्यदायादेशौ । तद्वतां कथाभी रमसे शुभे कल्याणि ॥
इति कृत्याधिकारः ॥
अथ प्रकीर्णका:-
अतः परं प्रकीर्णका:-
३५९ - वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान् ॥
अजैषीः काम- संमोहौ, संप्राप्था विनयेन वा ॥६८॥
-
-
वर्धत इत्यादि — हे कातरचित्ते, तव तपो वर्धते तस्य च ये विघ्नास्तेषां ये
नायकाः प्रणेतारस्तान् व्यजेष्ठाः जितवत्यसि । लुङि '२६८५ । विपराभ्यां जेः
।१।३।१९।' इत्यात्मनेपदम् । कामसंमोहौ कञ्चिदजैषीः जितवत्यसि । '२२९७ ।
सिचि वृद्धिः -- ।७।२।१। विनयेन वा संप्राप्थाः संप्राप्तासि । कर्मणि लुङ् ।
'२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । अत्रानुक्तमपि कञ्चिदिति
पदमर्थायोज्यम् ॥
३६० - नो ऽऽयस्यसि तपस्यन्ती, गुरुन् सम्यगतूतुषः ॥
यमान् नौद विजिष्ठास् त्वं, निजाय तपसे ऽतुषः ६९
१-- ९१७ । पिठरः स्थाल्युखा कुण्डम् ॥ इति ना० अ० ।