This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः:- १३९
 
३।१।१२४॥ कदा अमावास्यासमन्वये अमावास्यायाः सम्प्राप्तौ अमावास्याया-
मित्यर्थः । ८२८७४ । अमावस्यदन्यतरस्याम् ।३।१॥२२॥ इति निपातनम् । तत्र
हि अमाराब्दे उपपदे वसेर्धातोरमा सह वसतो यस्मिन्काले सूर्याचन्द्रमसौ
इति कालेऽधिकरणे ण्यत् । तस्मिन्नन्यतरस्यां वृद्ध्यभावः । कैः । फलैः स्वादुभिः
मिष्ठैः । अपचनीयैः अनुपहतत्वात् '२८७२। ऋहलोर्ण्यत् ॥३।१।१२४॥ ॥
 
,
 
३५५ - अवश्य - पाव्यं पवसे कञ्चित् त्वं देव-भाग्ध॑विः ॥
आसाव्यमध्वरे सोमं द्विजैः कञ्चिन् नमस्यसि ॥६४॥
 
M
 
अवश्यपाव्यमित्यादि - देवभाक् देवान् भजत इति '२९७६ । भजो विः
।३।२।६२ । तद्धविः कचित् किं पवसे पवित्रीकरोपि मन्त्रादिना । ११९। झयो
होऽन्यतरस्याम् । ८।४।६२।' इति हकारस्य पूर्वसवर्ण: । '१०३७॥ पूइ पवने'
इति भौवादिकः । कीदृशम् । अवश्यपाव्यमवश्यम्भावेन पावयितव्यमित्यर्थः ।
८२८८६ । ओवश्यके ।३।१।१२५ । इति ण्यत् । '७५४ । मयूरव्यंसकादय:-
।२।१२।७२ ॥ इति समासः । 'लुम्पेदवश्यमः कृत्ये तुं काम- मनसोरपि' इति
मकारलोपः । सोममोषधि विशेषम् । असाव्यमभिषवार्हम् । आङ्पूर्वा सुनोतेः
'२८८७ । आसुयु-वपि - । ३ । १ । १२६।' इत्यादिना ण्यत् । अध्वरे यज्ञे द्विजैः सह
कञ्चित्वं नमस्यसि नमस्करोषि ।
 
-
 
३५६ - आचाम्यं संध्ययोः कैच्चित् सम्यक् ते न प्रहीयते ॥
कच्चिदग्निमि॑िवो ssनाय्यं काले संमन्यसे ऽतिथिम् ॥
 
>
 
-
 
आचाम्यमित्यादि – प्रभातेऽपराहे च सन्ध्ययोर्यदाचाम्यमुपस्पर्शनम् ।
पूर्ववत् ण्यत् । कञ्चित्सम्यक् यथावत्तव तत्र न प्रहीयते न तस्य हतिर्भवति ।
काले आतिथ्योचिते काले कञ्चित् अतिथि संमन्यसे पूजयसि । अग्निमिवाना-
य्यम् यथा अग्निं आनाय्यम् । दक्षिणाझिं मन्यसे तहत् । '२८८८ आनाय्यो
नित्ये । ३।१।१२७।' इति नयतेरापूर्वस्य ण्यदायादेशौ निपात्येते ।
 
३५७ - न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति ॥
देव - कार्य - विघाताय धर्मद्रोही महोदये ! ॥ ६६ ॥
 
१–'७१९। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर् मखः ऋतुः ।' इति ना० अ० । २- १२३६
दन्त- विप्रा Sण्डजा द्विजाः । इति ना० अ० । द्विज शब्दार्था स्त्रयः सुन्दरीवृत्तेन- 'द्विजे-
राज-शिरो-मणेर्भिदां द्विजे-राज- ध्वज - शालिनश्च यः । कलयेन् मनसाऽपि, पात्यतेऽन्तक-भृत्यैः
खलु तद्-द्विजाँऽऽवलिः ॥' इति कोशावतंसः । द्विजो विप्रः । द्विजोऽण्डजः पक्षी । द्विजो
दन्तः । ३-१४८९ । कच्चित् काम-प्रवेदने ।' ४ – '६९७ । यो गार्हपत्यादानीय दक्षिणाग्नि:
प्रणीयते । तस्मिन्नानाय्यः ॥ ५ – '३२४ । गृहाः पुंसि च भूस्येव निकाय्य-निलयाऽऽलयाः'
सर्वत्र ना० अ० ।
 
1