This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १३७
 
ऽपि नाखेयो न खननीयः अपि तु खननीय एव । अपिशब्दः सम्भावनायाम् ।
तस्य कारणं सद्भृत्यशालित्वम् । '२८६० । ई च खनः । ३।१।१११।' इति क्यबी-
कारौ । तस्य मन्युस्त्वया सार्योऽपनेयः । ते तव तेन च शोको मृज्यः १२८६२।
मृजेर्विभाषा ।३।१।११३।' इति यद्विकल्पे ण्यत् ॥
३४८ - स राजसूय याजीव तेजसा सूर्य-सन्निभः ॥
 
अ-मृद्यं वदन् रुच्यो जगाहे द्यां निशाचरः ॥५७ ॥
स इत्यादि –स निशाचरो द्यामाकाशं जगाहे गतः । राजसूययाजीव ।
राज्ञा सूयते राजा वा अनेन सूत इति राजसूयः ऋतुः । तेनेष्टवान् स राज-
सूययाजी । २९९६ । करणे यजः ।३।२।८५ ।' इति णिनिः । तदित्यर्थः । रुच्यः
प्रियो जातो रामस्येत्यर्थात् । २८६५ । राजसूय -१३।१।११४।' इत्यादिना क्यबन्ता
राजसूयादयः ॥
 
३४९ - अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः ॥
 
.
 
रत्ना॒ऽन्न-पान - कुप्यानार्माटतुर् नष्टसंस्मृती ॥ ५८ ॥
अकृटपच्या इत्यादि — ततो निशाचरगमनानन्तरं दाशरथी रामलक्ष्मणा-
वाटतुर्गतवन्तौ । कीदृशौ । नष्टा संस्मृतिः ययोः । केषां संस्मृतिः । रत्नान्नपान-
कुप्यानाम् । रत्नान्नपानानि प्रसिद्धानि । कुप्यं स्वर्णरजताभ्यामन्यत् वस्तु तत् ।
संज्ञायां क्यप् । गुपेरादेः गकारस्य ककारः । कर्मणि पष्टी । लताः पश्यन्तौ ।
कृष्टे पच्यन्ते इति कृष्टपच्याः । पूर्ववत् क्यप् । पश्चान्नञ्समासः । स्वयमेव
पच्यन्ते यास्ता इत्यर्थः ॥
 
३५० - समुत्तरन्ताव व्यथ्यौ नदान् भिद्योद्ध्य-सन्निभान् ॥
-

सिध्य-तारामिव ख्यातां शबरीमापतुर् वने ॥ ५९ ॥
समुत्तरन्तावित्यादि — तौ तस्मिन् वने शबरीमापतुः प्राप्तवन्तौ । अन्यथ्यौ
न व्यथेते इति पूर्ववत् क्यप् । परिश्रमवर्जिताबित्यर्थः । नदानू समुत्तरन्तौ ।
कीदृशान् । भिद्योद्ध्यसन्निभान् । भिद्योद्ध्यौ नदविशेषौ । '२८६६ । भिद्योद्ध्यौ-
।३।१।११५।' इति पूर्ववत् निपातितम् । भिनत्ति कूलमिति भिद्यः । उज्झत्यु -
दुकमिति उच्चः। '१३८८ । उज्झँ उत्सर्गे' । दुकारात्परस्य धकारो निपात्यते ।
तत्सदृशान् नदान् । सिध्यतारामिव ख्याताम् । सिध्यन्त्यस्मिन्निति -सिध्यः ।
' २८६७ । पुष्य- सिध्यौ नक्षत्रे ।३।१।११६।' इति निपातनात् । पुष्याख्यां तारा-
मित्र ख्यातां शबरीम् ॥
 
३५१ - वसानां वल्कले शुद्धे
विपूयैः कृत-मेखलाम् ॥
 
१ – ९७७ । स्यात् कोशश् च हिरण्यं च हेम
रूप्ये कृताकृते । ताभ्यां यदन्यत् तत्
कुप्यम् ॥ इति ना० अ० ।