2023-02-15 17:22:07 by ambuda-bot
This page has not been fully proofread.
१३४ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
अथ कृत्याऽधिकारः-
इतः परं कृत्याधिकारः-
३३७ - प्रष्टव्यं पृच्छतस् तस्य कथनीयमेवीवचत् ॥
आत्मानं वन-वासं च जेयं च sरिं रघूत्तमः ॥४६॥
प्रष्टव्यमित्यादि- - स योजनबाहुः निहतो रामं पप्रच्छ 'को भवान्, कस्य
पुत्रः, कथं तव वनवासः, कस्माञ्चोद्दिनः सन् भ्रमसि' इति । प्रष्टव्यं मनाई
पृच्छतस्तस्य । '२७३४ । तव्यत् तव्यानीयरः ।३।१।९६ । इति तव्यत् ।'२९४।
ब्रश्च–।८।२।३६॥ इति पत्वम् । ष्टुत्वं च । रघूत्तमस्तदान कथनीयं कथनाहं
प्रश्नानुरूपम् । तेनैवानीयर् । अवीवचद्वक्ति स्म । '१९८५ । वचँ भाषणे ।' चौरा-
दिकः । स्वार्थिको णिच् लुङ् चङ् । णिलोपः ह्रस्वः । द्विवचन-सन्वद्भावेत्वदीर्घ-
त्वानि । किं तदित्याह- आत्मानं अहं रामो दाशरथिरिति । वनवासं पितुरा-
देशात् वनवासः । जेयं चारिं जेतव्यं यः कनकमृगच्छलेन रावणः सीतामप-
हृतवानिति ॥
३३८ - 'लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः ॥
सह्यः कथं वियोगश् च, गद्यमैतत् त्वया मम.' ॥४७॥
लभ्येत्यादि – कथं केन प्रकारेण उपायेन वैदेही लभ्या प्राण्या । '२८४४॥
पोरदुपधात् ।३।१।१८।' इति यत् । शत्रुः केन प्रकारेण द्रष्टुं शक्यः । '३१७७।
शक-टप-।३।४/६५।' इत्यादिना तुमुन् । वियोगश्चार्य सीतायाः कथं केन प्रका-
रेण सह्यः सोढव्यः । '२८४७ । शकि सहोश्च ।३।१।९९॥ इति यत् । गद्यमेतत्
कथनीयमेतत् । '२८४८। गद-मद - । ३।१।१001' इत्यादिना यत् । समेति
शेषविवक्षायां षष्टी ॥
,
३३९-'अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन् ॥
पाप-चर्यो मुनेः शापाज् जात' इत्येवदत् स तम्. ४८
अहमित्यादि–हे राम ! अहं श्रियः पुत्रः मद्यपीत इव । '९००। वाहिता-
यादिषु ॥२।२॥३७।' इति निष्टान्तस्य परनिपातः । कार्याकार्यविवेकाभावात्पाप-
चय राक्षसः । मुनेः स्थूलशिरसः शापाजात उत्पन्नः । माद्यत्यनेनेति मद्यं
चरितव्यं चर्यमेतौ पूर्ववत्प्रत्ययान्तौ । पापं चर्यं यस्येत्यवदत् स योजनबाहुस्तं
रामम् । वाक्यार्थोऽत्र कर्म ॥
३४० - 'प्रयातस् तव यम्यत्वं शस्त्र पूतो ब्रवीमि ते ॥
5
रावणेन हृता सीता लङ्कां नीता सुरारिणा ॥ ४९ ॥
अयात इत्यादि - इदानीं तव यम्यत्वं वश्यत्वं प्रयातः । यमेः पूर्ववत् यत् ।
पुतव शस्त्रेण पावितः सन् ब्रवीमि ते तुभ्यं कथयामि । युष्मदश्चतुर्ये-