This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः-- १३३
 
जानकीवार्ता संग्रामं च । तत उपस्थानानन्तरं रावणं द्विषन्तम् '३१११॥ द्विषो-
ऽमित्रे । ३।२।७३१।' इति शतृप्रत्ययः । आख्याय सीता रावणेन हृतेति कथ-
यित्वा । पततां पक्षिणां वरो जटायुर्ममारेति परेणान्वयः ॥
 
३३४ - व्रण - वेदनया ग्लायन् ममार गिरि-कन्दरे, ॥
 
तस्या॑न्य॒म्ब॑-क्रियां कृत्वा प्रतस्थाते पुनर् वनम् ॥४३॥
 
-
 
व्रणेत्यादि – व्रणकृता वेदना पीडा । मध्यमपदलोपी समासः । तथा
ग्लायन् ग्लानिं गच्छन् । शतर्यांयादेशः । ममार मृतः । क्व गिरिकन्दरे यं गिरिम-
न्वसृपत् तस्य निम्नप्रदेशे । कन्दं रातीति (कं दारयतीति वा ) व्युत्पत्तिमात्रम् ।
तस्य जटायोरयम्बुकियां दाहमुदकदानं च कृत्वा पुनर्भूयो वनमरण्यं प्रतस्थाते
प्रस्थितौ । '२६८९। समव-प्र-विभ्यः - ।१।३।२२।' इत्यात्मनेपदम् ॥
 
३३५ – सत्त्वान॑जस्रं घोरेण वहा॒ऽपकर्षम॑श्चता ॥
 
क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना ॥ ४४ ॥
 
सत्त्वानित्यादि – तौ रामलक्ष्मणौ रक्षसा राक्षसेन जगृहाते गृहीतौ ।
कर्मणि लिट् । किंनाम्ना । दीर्घबाहुना । अन्वर्था चेयं संज्ञा । एक एकेन बाहुना
द्वितीयो द्वितीयेनेति । क्षुध्यता बुभुक्षमाणेन घोरेण भीमेन । सत्त्वान् अजस्रं
सदा । नज्पूर्वाजसः '३१४७ । नमिकम्पि-।३।२।१६७।' इति रः । अश्वता
भुञ्जानेन । किं कृत्वा । बलापकर्षं बलादाकृष्येव पाकादिकमनपेक्ष्य । '३३७३।
अपादाने परीप्सायाम् । ३ । ४ । ५२ ॥ इति णमुल ॥
 
३३६ - भुजौ चकृततुस् तस्य निस्त्रिशांभ्यां रघूत्तमौ ॥
 
स छिन्न-वाहुरंपतद् विह्वलो ह्वलयन् भुवम् ॥ ४५ ॥
इति प्रकीर्णकाः ।
 
भुजावित्यादि – रघूत्तमौ रामलक्ष्मणौ तस्य योजनबाहो: बाहू यथास्थान-
मागतौ चकृततुः च्छिन्नवन्तौ । '१५२९। कृतीं छेदने' । इत्यस्य रूपम् । काभ्यां
निस्त्रिंशाभ्यां खड्गाभ्याम् । निर्गतस्त्रिंशतोऽङ्गुलिभ्य इति वाक्ये 'डच्प्रकरणे
संख्यायास्तत्पुरुपस्योपसंख्यानम्' इति त्रिंशच्छब्दाड्डुज्विधिः 'निरादयः' इति
समासः । टिलोपः । स छिन्नबाहुः कृत्तभुजः सन् । अपतत् पतितः । पतेर्लुङि
रूपम् । ऌदिवादङ् । विह्वलो व्याकुल: भुवं भूमिं ह्वलयन् । ८६२ । इल
चलने' । घटादित्वे ह्रस्वत्वम् ॥ इति प्रकीर्णकाः ॥
 
१ – '२५८। अम्भोऽर्णस्-तोय-पानीय-नीर-क्षीराऽम्बु-शम्बरम् ।' इति ना० अ० । २-१८५४॥
खन्ने तु निस्त्रिंश चन्द्रहासा- ऽसि - रिष्टयः । इति ना० अ० ।
 
भ० का० १२