2023-02-15 17:22:08 by ambuda-bot
This page has not been fully proofread.
१३२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
दिनः श्नम् । अल्लोषः । एवमुक्तेन प्रकारेण वदन् दाशरथि: धनुषा शरम् अष्ट
णक् पृणक्ति स्म । '१५५७
। लङि नम् । हल्ड्यादिलोपः
कुत्वम् ॥ इति श्चविकरणनिदर्शनम् ॥
इतः प्रकीर्णक लोकानाह-
३३१ - न्यवर्तयत् सुमित्रा भूस् तं चिकीर्षु जगत्-क्षयम्,
ऐक्षेतामा श्रमाद् गिरिकल्पं पतत्रिणम् ॥ ४० ॥
न्यवर्तयहित्यादि – तं रामं जगत्क्षयं चिकीर्षु कर्तुमिच्छुम्। सुमित्राभू
लक्ष्मणो न्यवर्तयत् निवर्तितवान् । 'भ्रातः । अलं कोपेन, त्वया साधं कः संग्रामे
युद्धं दातुं समर्थः ? यदन युक्तं तत्प्रतिविधीयताम्' इति । भवनं भूः । सम्पदा-
दित्वात् चिप् । सुमित्रायां भूर्यस्य । ऐक्षेतां रामलक्ष्मणौ दृष्टवन्तौ । लङि रूपम् ।
पक्षिणं गिरिकल्पं महाप्रमाणत्वात् । आश्रमादारात् समीपे । '६११॥ दूरान्ति-
कार्यैः-।२।३।३४।' इति पञ्चमी ॥
३३२ - तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत ॥
'मा वधिष्ठा जटायुं मां सीतां रामा॑ऽहमैक्षिपि.' ॥४१॥
तमित्यादि - तं सीताघातिनं सीता हतानेनेति मत्वा रामो हनिष्यामील
भ्यधावत । '६४३ । धावँ गति शुद्ध्योः' । इत्यस्माल्लङि स्वरितेच्वादात्मनेपदम् ।
तं हन्तुमुद्यतं रामं जटायुराह मा वधिष्टा इति । हे राम, मां जटायुं मा वधिष्ठा
मा वधीः । 'वध बन्धने' इत्यस्याइनेकार्थत्वादात्मनेपदिनः सेटो लुङि रूपं,
न हन्तेः तस्य परस्मैपदित्वात् । सत्यप्याङि '२५९५ । आङो यमहनः ।१।३।२८॥
इत्यात्मनेपदं न भवति तत्राकर्मकाढित्यनुवृत्तेः । स्वनामपरिकीर्तनं तव पितुरहं
सखेति ख्यापनार्थम् । सीतामैक्षिपि दृष्टवानहम् । लुडुतमैकवचने रूपम् ।
अतो मां मा वधिष्ठाः ॥
३३३-उपास्थितैवर्मुक्ते॒ तं सखायं राघवः पितुः ॥
पप्रच्छ जानकी वार्ता संग्रामं च पतत्रिणम् ॥
ततो रावणमाख्याय द्विपन्तं पर्ततां वरः ॥ ४२ ॥
उपास्थितेत्यादि-पक्षिणैवमुक्ते सति राघवस्तं व्रणभङ्गाद्यनुष्टानेन उपा-
स्थित परिचरितवान् । सङ्गतकरणे आत्मनेपदम् । २३८९ । स्थाध्वोरिच ॥१॥२/-
१७ ।' इतीत्वम् । '२३६९ । हस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः । पितुः
सखायमिति सखिशब्दस्य द्वितीयैकवचने रूपम् ' २५३ । सख्युरसम्बुद्धौ ।७।१।-
९२ ।' इति णित्वाद्वृद्धिरायादेशः । पप्रच्छ पृष्टवान् । तं पक्षिणं जटायुम् । किं
१- २४५१ । आराद् दूरसमीपयोः ।' ना० अ० ।
२-(२८९ ) श्लोकोक्तं टीकनं प्रेक्ष्यम् ।