This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १३१
३२७ - रिणचिम जलधेस् तोयं, विविनच्मि दिवः सुरान् ॥
क्षुणझि सर्पान् पाताले, छिनझि क्षणदा- चरान्. ३६
रिणच्मीत्यादि — जलधेस्तोयं रिणच्मि रिक्तीकरोमि । '१५३५॥ रिचिर्
विरेचने ।' दिवः स्वर्गात् सुरान् विविनचिम पृथक्करोमि । १५३६ । विचिर् पृथ-
ग्भावे ।' क्षुणद्मि चूर्णयामि सर्पान् पाताले । '१५३७ । क्षुदिर् पेषणे' । १९७।
अट्-कु-प्वाङ्- ।८।४।२।' इति णत्वम् । छिनझि क्षणदाचरान् राक्षसान् द्विधा
करोमि । '१५३४ । छिदिर् द्वैधीकरणे' ॥
 
३२८ - यमं युनज्मि कालेन समिन्धानो ऽस्त्र - कौशलम् ॥
शुष्क - पेषं पिनष्म्युर्वीम॑खिन्दानः स्त्र - तेजसा ॥३७॥
 
M
 
यममित्यादि – यममपि कालेन तदधीनेन मृत्युना युनज्मि सम्बध्नामि ।
अस्त्रकौशलं समिन्धानः संवर्धयन् । १५४२ । जि-इन्धी दीप्तौ' । आत्मनेप-
दिनो लट: शानच् । '२५४४ । मान्नलोपः ॥४॥२३॥२४६९। सोरल्लोपः
।६।४।१११।' उर्वी शुष्कां कृत्वा चूर्णयामि । '१५४६ । पिप्ऌ संचूर्ण' ।'३३५६॥
शुष्कचूर्णरूक्षेषु पिषः । ३ । ४ । ३५ ॥ इति णमुल । अखिन्दानः स्वतेजसा दैन्यमभ-
जन् अपरिश्राम्यन् । '१५४३ । खिद् दैन्ये' । पूर्ववल्लोपः ॥
३२९ - भूतिं तृणझि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम् ॥
 
भनज्मि सर्व मर्यादास्, तनच्मि व्योमं विस्तृतम् ३८
भूतिमित्यादि – यक्षाणां भूतिं सम्पदं तृणझि उत्सादयामि । १५४० ।
उ-तृदिर हिंसाऽनादरयोः' । इन्द्रस्य विक्रमं हिनस्मि अपनयामि । १५५०।
हिसि हिंसायाम्' । '२२६२ । इदितो नुम् । ७।१।५८॥ तस्य नान्नलोपः । सर्व-
मर्यादाश्च व्यवस्थाः सर्वेषां भनज्मि मर्दयामि । १५४७ । भञ्जो आमर्दने ।'
८२५४४ । श्वान्नलोपः ।६।४॥२३॥ तनच्मि व्योम विस्तृतं सङ्कोचयामि । ' १३-
३१॥ स्तृञ् आच्छादने' सौवादिकस्य रूपं न १५६९ । स्तृञ् आच्छादने' इति
क्रैयादिकस्य । '१५५३। त सङ्कोचे' । '१९४४ । आनलोपः ॥६॥४।२३॥ ॥
कस्मादेवं प्रवृत्तस्त्वमिति चेदाह -
 
३३० - न तृणेह्मति लोकोऽयं मां विन्ते निष्-पराक्रमम्,' ॥

एवं वदन् दाशरथिर॑पृणम् धनुषा शरम् ॥ ३९ ॥
 
न तृणेह्मीत्यादि-न तृणेझि न मारयामि इति कृत्वा । '१५४९। तृहँ हिसि
हिंसायाम्' । नम्। '२५४५ । तृणह इम् ।७।३।१२॥ अयं लोको मां निष्परा-
क्रम निर्वीर्यं विन्ते विचारयति । १५४४ । विदँ विचारणे' इत्यस्मादात्मनेप-
१ – ३०२ । सर्वसहा वसुमती वसुधोर्वी वसुंधरा । गोत्रा कुः पृथिवी पृथ्वी
क्ष्माऽवनिर् मेदिनी मही ॥ इति ना० अ० । २-८० । 'द्यो- दिवौ द्वे स्त्रियामभ्रं व्योम पुष्क-
रमम्बरम् । नमोऽन्तरिक्षं गगनमनन्तं सुरवमै खम् ॥" इति ना० अ० ।