2023-02-15 17:22:07 by ambuda-bot
This page has not been fully proofread.
१३० भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
दीप्तैरिति भावे निष्टा । सर्वत्र कर्तरि लुङ् । ८२३२८ । दीप-जन - । ३३११६६।१
इत्यादिना चिण् ॥
३२४ - अताय्यस्यौत्तमं सत्वर्मप्यायि कृत कृत्य-वत् ॥
,
उपाचायिष्ट सामर्थ्य तस्य संरम्भिणो महत् ॥ ३३ ॥
अतायीत्यादि- – अस्य रामस्य उत्तमं सत्वमभिप्रायः शोकव्यसनयोरविका-
रित्वात् अतायि सन्ततं नान्तरा विच्छिद्यते स्म । अप्यायि बृंहितम् । कृतकृ
त्यवत् समाप्तक्रियवत् । हस्ततलस्थं शत्रुवधं मन्यमानस्य । उभयत्रापि पूर्वव-
चिण् । तस्य रामस्य संरम्भिणः शत्रुचिपये क्षुभितचित्तस्य सामर्थ्य बलं महदुपा-
चायिष्ट स्वयमेवोपचीयते स्म । चिनोतेः '२७६८ । अचः कर्मकर्तरि ।३।१।६२ । '
इति वा चिण् । पक्षे चिण्वदि ॥
३२५ - अदोहीव विपादो ऽस्य, समरुद्धैव विक्रमः ॥
समभावि च कोपेन, न्यश्वसीच् चऽऽयतं मुहुः ॥
अदोहीत्यादि — अस्य रामस्य विपादः प्रागुत्पन्नो ऽदोहीन स्वयं क्षरित
इव । अथवा अदोहीव प्रपूर्यते स्मेव । '२७६९ । दुहश्च ।३॥।६३ ।' इति चिण् ।
विक्रमः पुरुषकारः समरुदेव स्वयं संरुध्यते स्म इव । '२७६६ । कर्मवत् । ३।१।-
८७ । ' इत्यादिना कर्मवद्भावेन प्राप्तस्य चिण: १२७७० । न रुधः । ३।१।६४ । इति
निषेधः । तेन सिजेव भवति । १२२८१ । झलो झलि ।८।२।२६।' इति सिचो
लोपः । '२२८० । झषस्तथोर्धो ऽवः ।८।२।१०।' । '५२ । झलां जश् झशि ।८।४।
५३ ।' इति धत्व - जश्त्वे । कोपेन च समभावि सम्भूतम् । ८२७५९ । चिण् भाव-
कर्मणोः ।३।१।६६।' इति भावे चिण् । त्रैलोक्य दौःस्थ्यावबोधाज्जातखेदः सन्
आयतं दीर्घं न्यश्वसीत् निःश्वसितवान् । '२२९९ । हृयन्त ।७।२।५।' इति वृद्धिर्न
भवति । मुहुरिति सर्वत्र योज्यम् ॥ ॥ इति सिजधिकारः ॥
श्नम् प्रकरणं कथ्यते-
इतः प्रभृति नम्-प्रकरणमधिकृत्याह-
।
३२६–अर्था ऽऽलम्ब्य धनू रामो जगर्ज गज - विक्रमः, ॥
'रुणध्मि सवितुर् मार्ग, भिनद्मि कुल पर्वतान् ॥३५॥
अथेत्यादि – अथानन्तरं रामो धनुरालम्ब्य गृहीत्वा जगर्ज विस्फूर्जित-
वान् । धनू राम इति '१७४ । ठूलोपे । ६।३।१११।' इति दीर्घः । '२३५। गर्ज
गर्जने' । किं जगर्ज । सवितुः सूर्यस्य मार्ग पन्थानं रुणधिम आवृणोमि । शरै-
रित्यर्थात् । '२५४३ । रुधादिभ्यः श्नम् ।३।१।७७।' तथा भिनभि विदारयामि
कुलपर्वतान् ॥
१-१८६८। विक्रमस् त्वतिशक्तिता ।" इति ना० अ० । २ – 'महेन्द्रो मलयः सद्यः
शक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥'