2023-02-15 17:22:06 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः-
P
१२९
३२० - इदं कवचम॑च्योतीत्, सऽश्वो ऽयं चूर्णितो रथः ॥
ए॒ह्य॑मुं गिरिम॑न्वेष्टुमवगाहावहे द्रुतम् ॥ २९ ॥
इदमित्यादि – इदं कवचमच्योतीत् भ्रष्टम् । अङभावे सिजेव भवति ।
अयं रथः साश्वचूर्णित आस्ते । यतश्चैवं तस्मादेहि आगच्छ द्रुतम् । किं पश्चाद्वि-
लम्बसे । अभुं गिरिमवगाहावहे विलोडयावः । किमर्थं अन्वेष्टुम् । सीता मित्य-
र्थात् । एतत्सर्वं पर्वतसमीपे कथ्यते ॥
३२१ - मन्युर् मन्ये ममो ऽस्तम्भीद्,
विषादो ऽस्तभद्यतिम् ॥
अजारीदिंव च प्रज्ञा,
,
बलं शोकात् तथा॑जरत् ॥ ३० ॥
मन्युरित्यादि — मन्युः शोकः । मन्ये धमन्यौ । (ऋन्दतः उच्छूने ) ।
अस्तम्भीत् स्तब्धवान् । विषाद उद्यतिमस्तभत् । अत्र पक्षे अनुनासिकलोपः ।
प्रज्ञा च तत्वविवेकिनी बुद्धिः अजारीत् विवेकवैकल्यात् जीर्णेव । तथाशब्दः
समुच्चये । बलं शोकादजरत् जीर्णम् । स्वकार्याकरणात् ॥२४०६ ऋशोऽङि-
।७।४।१६।' इति गुणः । '२२९१ । -स्तम्भु ।३।१।५८।' इत्यादिना सिजडौ ॥
३२२
- गृध्रस्यैहाश्वतां पक्षौ कृत्तौ, वीक्षस्व लक्ष्मण ! ।
जिघत्सोर् नूनमा॑पादि ध्वंसो ऽयं तां निशा-चरात् '॥
गृध्रस्येत्यादि – हे लक्ष्मण । इह प्रदेशे गृध्रस्य पक्षौ कृत्तौ छिन्नौ । अश्वतां
शूनौ । पूर्ववदङि '२४२१।श्वरः ।७।४।१८।' इति । वीक्षस्व नूनमवश्यं
सीतां जिघरसोरत्तुमिच्छोर्गृध्रस्य । अदे: '२४२७ । लुङ्- सनोस् ॥२॥४॥३॥
निशाचरादयं ध्वंसः पक्षच्छेद आपादि उत्पन्नः । कर्तरि लुङ् । '२५१३॥
चिण् ते पदः ।३।१॥६०। ' इति च्लेश्चिणादेशः । तशब्दस्य २३२९ । चिणो लुक्
।६।४।१०४।' ॥
३२३ - क्रुद्धो ऽदीपि रघु-व्याघ्रो, रक्त नेत्रो ऽजनि क्षणात्,
अबोधि दुःस्थं त्रैलोक्यं, दीप्तैरांपूरि भानु-वत् ॥ ३२ ॥
क्रुद्ध इत्यादि – तदेवं रघुव्याघ्रो रामः क्रुद्धो अदीपि दीप्तवान् । क्षणाच
रक्तनेत्रो ऽजनि जातः । '२५३२ । जनि-वध्योश्च ।७।३।३५।' इति न वृद्धिः ।
त्रैलोक्यं निहन्मि यस्मिन् हन्यमाने सीताद्रुहोऽपि नश्यन्ति इत्यभिप्रायेण दुःस्थ-
मबोधि बुध्यते स्म । किंवा रामस्य द्वारा ह्रियन्ते तदान्येषु का कथा इति दुःस्थं
त्रैलोक्यमबोधि । दीप्तैस्तेजोभिर्हेतुभिरापूर वर्धते स्म । भानुवदादित्यवत् ।
६–'११०४ । स्युरुत्तरपदे व्याघ्र पुङ्गव-र्षभ- कुञ्जराः ॥ सिह-शार्दूल-नागाऽऽद्याः पुंसि
श्रेष्ठाऽर्थ-गोचराः ।'