This page has not been fully proofread.

१२८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
प्रत्यर्थिनूशब्दात्तत् करोतीत्यर्थे णिच् । तदन्ताल्लोट: परस्मैपदम् । २०१३ । अर्थ
याच्यायाम्' इत्यस्य तु स्वार्थिकण्यन्तस्य सर्वदात्मनेपदित्वात् प्रत्ययेयध्वमिति
स्यात् ॥
 
३१७ - स्व-पोषम॑पुषद् युष्मान् या पक्षि-मृग-शावकाः ! ॥
अद्युतच् चैन्दुना सार्धं, तां प्रब्रूत, गता यतः ॥२६॥
स्वपोषमित्यादि — हे मृगपक्षिणां शावकाः पोताः ! या सीता युष्मान् स्व-
पोषमपुत् पुष्टवती । '३३६९ । स्वे पुषः । ३ । ४।१०॥ इति णमुल । २८२७।
यथाविध्यनुप्रयोगश्च ।३।४।४।१।२३४३ । पुपादि-३११॥५५॥ इत्यङ् । तां प्रब्रूत
कथयत । यतो यत्र । आद्यादित्वात्तसिः । गता सत्ययुतत् द्योतते स्म । पूर्वव
ढुङ् । इन्दुना सार्धम् । चन्द्रमसा तुल्यकान्तित्वात् ॥
 
३१८-गिरि॑िम॒न्वसृपद् रामो लिप्सुर् जनक- संभवाम् ॥
तस्मि॒न्योधनं वृत्तं लक्ष्मणार्याऽशिषन् महत् - २७
 
गिरिमित्यादि – गिरिमन्वसृपत् लक्ष्यीकृत्य गतः । हृदित्वादङ् । किमर्थं
लब्धुमिच्छुः '२६२३। सनि मी मा - १७/४/५४ ।' इत्यादिना इस् । '२६२० । अन्न
लोपः-।७।४।५८।' इत्यभ्यासलोपः । '१२१ । खरि च ।८।४।५५।' इति चर्वम् ।
जनकसम्भवाम् । सम्भवत्यस्मादिति सम्भवः । '३२३२ । ऋदोरप् ।३।३।५७ । ।
जनकः सम्भवो यस्यास्तस्माद्वा संभवो यस्यास्तां सीताम् । तस्मिन् गिरौ आयो-
धनं युद्धं महदतिशयत्वात् । वृत्तं लक्ष्मणायाशिपत्कथितवान् । क्रियायोगे चतुर्थी ।
'२३८२ । सर्ति । ३।२।१६।' इत्यादिनाऽङ् । २४८६ । शास इदङ्-हलोः ॥४।
३४ ।' इतीत्वम् । '२४१० । शासि वसि - ।८।३।७०।' इति पत्वम् ॥
 
कथमकथयदित्याह-
३१९ - ' सीतां जिघांसू सौमित्रे ! राक्षसावरतां ध्रुवम् ॥
 
"
 
इदं शोणितम॑भ्यग्रं संप्रहारै ऽच्युतत् तयोः ॥ २८ ॥
 
H
 
सीतामित्यादि - ( इत्येवं लक्ष्मणायाशिषदिति श्लोकचतुष्टयं यावत्
सम्बध्यते ) हे सौमित्रे ! सीतां हन्तुमिच्छन्तौ राक्षसावारता मागताविति ध्रुवं
निश्चितम् । अर्तेराङ्पूर्वापूर्वदङ् । ८२४०६ । ऋ-दृशोऽङि- ।७।४।१६।' इति
गुणः । कीदृशौ । सीतां जिघांसू हन्तुमिच्छू । हन्तेः सनि '२७१४ । अज्क्षनगमां
सनि । ६।४।१६।' इति दीर्घः । '२४३० । अभ्यासाच ।७।३।५५॥' इति कुत्वम् ।
तथाहि । तयोः सीताद्वेषानुनयाभ्यां संग्रहारे युद्धे इदं शोणितम् अच्युतत्
गलितम् । '४१॥ च्युतिर् क्षरणे'। अकर्मकोऽत्र । '२२६९ । इरितो वा ।३।१।५७ । १
इत्यंङ् । अभ्यत्रं प्रत्यग्रम् ॥
 
१- (३१६) श्लोक-स्थं टीकनं प्रेक्ष्यम् । २–१८७० । अस्त्रियां समराइनीकरणा:
कलह-विग्रहौ । संग्रहाराऽभिसंपात कलि-संस्फोट-संयुगाः ॥' इति ना० अ० ।