2023-02-15 17:22:06 by ambuda-bot
This page has not been fully proofread.
१२६ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
३१० - रुदतो ऽशिश्वयच् चक्षु-
>
रास्यं हेतोस् तवा॑ ऽश्वयीत् ॥
त्रिये ऽहं, मां निरास्थश चेन्,
मा न वोचश् चिकीर्षितम् ॥ १९ ॥
रुदत इत्यादि —तवार्थे त्वां पश्यामीति रुदतो मम चक्षुरशिश्वियत् उच्छ्र-
नम् । आस्यं मुखं चाश्वयीत् । '२३७५ । विभाषा धेट्-व्योः ।३।१॥४९॥ इति
चङ्-सिचौ । चङीयङ् । '२२९९। यन्त - ।७।२।५।' इति न वृद्धिः । '२२६६।
इट ईटि ।८।२॥२८।' इति सिचो लोपः । गुणायादेशौ । मां निरास्थश्चयदि मम
दर्शनं निरस्तवती त्वं तदा नियेऽहम् । '२५३८ । म्रियतेर्लुङ्लिङोश्च ॥।३।६१॥'
इति चकाराच्छित्यात्मनेपदम् '२३६७। रि-श-यग्- ।७।४।२८।' इति रिङ् । अतो
यत्वया चिकीर्पितं कर्तुमिष्टं तन्मा नावोचः मा नाभाषिष्टाः अपि तु ब्रूहि ।
'२४३८ । अस्यति वक्ति-।३।१।५२।' इत्यङ् । ८२४५४ । वच उम् ।७।४।२०॥ ॥
३११ - लक्ष्मण ऽऽचक्ष्व, यद्यख्यत्
>
सा किञ्चित् कोप- कारणम् ॥
दोषे प्रतिसमाधान-
म॑ज्ञाते क्रियतां कथम् ॥ २० ॥
लक्ष्मणेत्यादि – हे लक्ष्मण ! यदि सा किञ्चित्कोपकारणमाख्यदुक्तवती ।
इदं तेनाप्रियमाचरितम् । पूर्ववदङ् । तदाचक्ष्व कथय । अज्ञाते दोषे अनिर्धा-
रिते प्रतिसमाधानं कथं क्रियतां अनुष्ठीयतां । नैवेति भावः । कर्मणि लोटू ।
'२३६७ । रिङ् – ।७।४।२८।' इत्यादिना रिङ् ॥
३१२ - इह सा व्यलिपद् गन्धैः, स्नान्तहा॑ऽभ्यषिचज् जलैः,
इहा॑ ऽहं द्रष्टुमा॑ह्वंं तां,' स्मरन्नो॑वं मुमोह सः ॥ २१ ॥
इहेत्यादि — इह प्रदेशे सा सीता गन्धैर्ग्यलिपत् समालिप्तवती । मामा-
त्मानं चेत्यर्थात् । इह स्नान्ती क्रीडापूर्वकमभ्यषिचत् । हस्तयन्त्रमुक्तसलिलेन
मामभिमुखं सिक्तवतीत्यर्थः । '२२७६ । प्राक्सितात्- ।८।३।६३।' इति पत्वम् ।
इह द्रष्टुं तामाहं आहूतवान् । '२४१८। लिपि - सिचिह्नश्च ।३।१॥५३॥' इति
च्लेरङ् । एवं स्मरन् मुमोह मोहं गतवान् ॥
३१३ – तस्या॑ ऽलिपत शोका॒ऽग्निः स्वान्तं काष्ठमि॑िव ज्वलन्,
अलवा॑ ऽनिलः शीतो वने तं, न त्वजिह्रदत्. २२
:
१–५६५३ । वक्रा ऽऽस्ये वदनं तुण्डमाननं लपनं मुखम् ।' इति ना० अ० ।
२ – '१५३ । चित्तं तु चेतो हृदयं स्वान्तं हृन् मानसं मनः ।' इति ना० अ० ।