This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १२५
'२३६९। हूस्वात्- ।८।२।२७।' इति सिचो लोपः । नोऽस्माकं जीवितेन मा
रंस्थाः क्रीडां मा कार्षीः । रमेरात्मनेपढित्वात्तङ् ॥ एते प्रकीर्णकाः ॥
अतः परं सिजधिकारः-
सिचं सापवादमधिकृत्याह-
३०७ - अहं न्यवधिषं भीमं राक्षसं क्रूर - विक्रमम् ॥
 
,
 
मा घुक्षः पत्युरोत्मानं, मा न श्लिक्षः प्रियं प्रिये. १६
अहमित्यादि — यतोऽहं राक्षसं मारीचं क्रूरविक्रमं भीमं भयानकं न्यव-
धिषं निहतवानस्मि । हन्तेः '२४३४ । लुङि च ।२।१४।४३॥ इति वधादेशः ।
अन्तत्वावृच्यभावः । तस्मान्मा घुक्षः न गोपय पत्युरात्मानम् । अन्तर्धावित्य-
पादानत्वम् । '२५५ । ख्यत्यात्परस्य ।६।१।११२।' इत्युत्वम् । गुहे: '२३३६ । शल
इगुपधादनिटः क्सः । ३।१।४५॥ '३२४ । हो ढः ।८।२।३१।' भण्भाव-कत्व-
षत्वानि । सिपश्च विसर्जनीयः । मान शिक्षः मा न परिरब्धाः अपितु लिष्य
प्रियं माम् । हे प्रिये । '२५१४। श्लिष आलिङ्गने ।३।१॥४६॥ इति क्सः ॥
३०८ मा स्म द्राक्षीर् मृषा दोषं, भक्तं मां मातिचिकिशः ॥
शैलं न्यशिश्रियद् वामा, नदीं नु प्रत्यदुद्रुवत् ॥ १७॥
 
मा स्मेत्यादि — मृपा दोषं व्यलीकं दोपं मा द्राक्षीः । मयीत्यर्थात् ' २२२०
स्मोत्तरे लङ् च । ३।३।१७६।' इति चकाराल्लुङ् । '२३३६ । शल इगुपधात् ।३।१।
४५।' इति क्सस्य ' २४०७ न दृशः । ३।२।४७ ।' इति निषेधः । '२२६९ । इरितो
वा ।३।१।५७।' इत्यङभावे सिच् । '२४०५५। सृजि-दृशो:-।६।१।५८ ।' इत्यम् ।
हलन्तलक्षणा वृद्धिः । २९४ । - ।८।२।३६ ।' इत्यादिना षत्वम् । यतोऽहं
भक्तस्ततो मां भक्तं मातिचिकिशः नातिक्लेशय । किशेर्ण्यन्तात् सिपि । '२३७२।
[णि श्रि - ।३।१॥४८।' इत्यादिना चडू । णिलोप-हस्व-द्विर्वचनानि । पुनर्विकल्पय-
नाह । मयि दोपदर्शनाद्वामा मप्रतिकूलवर्तिनी सती शैलं नु पर्वतं कमप्यशि-
श्रियदाश्रिता उत नदीं प्रत्यदुद्रुवत् प्रतिगतेत्यर्थः । शब्दो वितर्फे । पूर्ववञ्च ॥
३०९ - ऐ वाचं देहि धैर्य नस् तव हेतोरसुस्रुवत् ॥
 
त्वं नो मतमि॑a sधासीर् नष्टा, प्राणानिर्वाऽदधः.
ऐ वाचमित्यादि – ऐशब्दो निपातोऽभिमुखीकरणे वर्तते । वाचं देहि ।
प्रार्थनायां लोट् । '२४७१ । ध्वसोरेद्धौ । ६।४।११९१ । इत्येत्वम् । किमिति चेदा -
ह । धैर्य नोऽस्माकं घीरता तव हेतोरसुखवत् गलितम् । नष्टा अदर्शनं गता
सती त्वं नोऽस्माकं मतिं बुद्धिमधासीरिव पीतवतीव । बुद्धेरपगमात् । '२३७५ ।
विभाषा धेट् इव्योः ।३।१।४९॥ इति यदा न च तदा ' २३७७ । यम-रम-
।७।२।७३ ।' इति सगिटौ । प्राणानदधः पीतवती । कायस्याचेष्टत्वात् । चढि
रूपम् । '२३८२ । आतो लोपः ॥६।४।६॥ ॥