2023-02-15 17:22:06 by ambuda-bot
This page has not been fully proofread.
१२४ भट्टि काव्ये -
द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
कत्वम् । अतः सम्बुद्धौ हस्वत्वम् । विललाप स एवं कृत्वा बनेकप्रकारं विलपं
कृतवान् ॥
3
३०३ - इहां ssसिष्ट ऽशयिह सा, स-खेलमतो ऽगमत् ॥
अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः ॥ १२ ॥
इहेत्यादि – इह प्रदेशे आसिष्ट उपविष्टा । '१९५८॥ इदमो हः । ५।३।
११॥' । '१९४९ । इदम इश् ।५।३।३।' इह । अशयिष्ट शयितवती । आसे:
शीच लुङ् । सखेलं सलीलम् । इतः प्रदेशाद्गमत् गतवती इत्थमेवं प्रकारम् ।
मैथिल्याः स्मरन् । '६१३ । अधीगर्थ - २ ।३।५९२ ।' इति कर्मणि पष्टी । भरता-
ग्रजो रामोऽग्लासीत् ग्लानिं गतः । ग्लायते । २३७७ । यम-रम- १७७२१-
७३।' इति सगिटौ ॥
३०४ - 'इदं नक्तं तनं दाम पौष्पमैतद् दिवा-तनम् ॥
(3
शुचैवौद्वध्य शाखायां प्रग्लायति तया विना, ॥ १३ ॥
इदमित्यादि – नक्तंतनं निशाभवं इदं दाम पुष्पमाला पुनर्दिवातनं दिवस-
भवम् । '१३३३॥ सायम् । ४ । ३।२३।' इत्यादिना ट्युट्युलौ तुद् च । पौष्पं
पुष्पाणामिति तस्येदमित्यण् । शुचेव शोकेनेव । सम्पदादित्वात्विप् । शाखाया-
• मुद्धध्य । आत्मानमित्यर्थात् । प्रग्लायति ग्लानिं गच्छति । ग्लायते: शिव्याया-
देशः । शाखायां प्रलम्बमानं ग्लानिं गच्छन्तं वीक्ष्येदमुव्येक्षितम् । कुतः शोका-
त्तया विना सीताविच्छेदेन ॥
३०५ - ऐक्षिष्महि मुहुः सुप्तां यां मृतता॒ ऽऽशङ्कया वयम् ॥
अ-काले दुर्मरम॑हो, यज् जीवामस् तया विना, ॥१४॥
ऐक्षिप्महीत्यादि—यां वयमैक्षिप्महि ईक्षितवन्तः । ईक्षेः सेटो लुङ् । मुहुः
सुप्तां अविच्छिन्ननिद्रत्वात् । मृताशङ्कयेति अनिष्टशंसित्वात् प्रियजनहृदयस्य
इदानीं तया विना अहो वयं यज्जीवामस्तदुकाले दुर्मरणमिति विललाप । जीवि
तस्यापूर्णकाले दुःखेन मरणमिति भावे खल ॥
३०६ - अ क्षेमः परिहासो ऽयं परीक्षां मा कृथा मम ॥
मत्तो मा ऽन्तर्धिथाः सीते ! मा रंस्था जीवितेन नः, 11
अक्षेम इत्यादि — परिहसनं परिहासः क्रीडा । अक्षेमो न कल्याणकरः ।
मम परीक्षां किं मामपश्यन् दुःखित आस्ते न वेति मा कृथाः मा कार्षीः अपि
तु दर्शयात्मानम् मा निलीयस्व । '२३६८ । उश्च ।१।२।१२॥ इति कित्त्वागुणा-
भाव: । '२३६९ । ह्रस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः । तस्माद्धेतोः सीते
मान्तर्धिथाः । अन्तर्हिता मा भुः । ५९१ । अन्तर्घौ ॥४॥२८।' इत्यपादानसं-
शायां 'पञ्चम्यास्तसिः' । '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।१८॥ इति मदा-
देशः । लुङि '२३८९ । स्था-ध्वोरिञ्च ।१।२।१७।' इति सिचः कित्त्वमिश्वं च ।