This page has not been fully proofread.

१२२ भट्टि काव्ये – द्वितीयेऽधिकार
काण्डे लक्षण-रूपे अथमो वर्गः,
२९७ - आशङ्कमानो वैदेहीं खादितां निहतां मृताम् ॥
स शत्रु प्रस्य सोदर्य दूराददा॑यान्तमैक्षत ॥ ६ ॥
आशङ्कमान इत्यादि- तथा विधाशुभश्रवणादाशङ्कमानो वितर्कयन् वैदेहीं
किं खादितां निशाचरादिना । ततः निहतां त्यक्तप्राणाम् । आहो स्वयमेवायुःक्ष-
यान्मृतां वा । स रामः शत्रुघ्नस्य सोदर्य भ्रातरम् । १६६० । सोदराद्यः ॥४॥४/-
१०९।' आयान्तमागच्छन्तमारादैक्षत दृष्टवान् । ईङि रूपम् ॥
 
२९८ - सीतां सौमित्रिणा त्यक्तां सधीचीं त्रस्नुमैकिकाम् ॥
विज्ञाया॑ ऽम॑स्त काकुत्स्थ:- 'क्षये क्षेमं सु- दुर्लभम् ७
सीतामित्यादि — सौमित्रिरेकाकिनो दृष्टत्वान्नियतमनेन त्यक्तेति तां विज्ञाय
ज्ञात्वा काकुत्स्थो रामः । क्षये गृहे । क्षीयतेऽस्मिन्निति अधिकरणेऽच् । क्षेमं
कल्याणम् । सुटुर्लभं सुदुःखेन लभ्यत इति । '३३०५ । ईषद्- । ३।३॥२६।
इत्यादिना खल । अमंस्त ज्ञातवान् । कथं क्षये क्षेमं सुदुर्लभमिति आह-सधीचीं
सहचारिणीं न क्वचिदेकाकिनीं तिष्टन्तीम् । सहाञ्चतीति '३७३ । ऋत्विग् ।३।
२॥ ५९॥ इत्यादिना किन् । '४२२ । सहस्य सधिः ।६।३।९५।' इत्यञ्चतौ वप्रत्यये
सहस्य सध्यादेशः । 'अञ्चतेश्योपसंख्यानम्' इति ङीप् । '४१६ । अच: (६।४।-
१३८।' इत्यकारलोपः । '४१७ । चौ ॥६॥३॥१३८।' इति दीर्घः । कुतः त्रस्तुं
त्रसनशीलाम् । क्रियाशब्दत्वादू न भवति । एकिकां लक्ष्मणेन त्यक्तत्वात् ।
'१९९८। एकादाकिनिञ्चासहाये ।५।३॥१२॥ इति चकारात्कन् । '४६३ । प्रत्यय -
स्थात् – ।७।३।१४।' इतीत्वम् ॥ ॥ एते प्रकीर्णकाः ॥
 
अतः परं दुहादि:-
इतो द्विकर्माधिकारः -
 
२९९-सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान् ॥
 
रामं यथास्थितं सर्वं भ्राता ब्रूते स्म विह्वलः ॥ ८ ॥
सोऽपृच्छदित्यादि – ८५३९। अकथितं च ।१।४।११।' इत्यत्र 'दुहिया-
चीत्यादिश्लोकैस्थान् धातॄन् प्रयुके कविः । तन्त्र रामोऽपृच्छत् सीतामिति प्रधानं
कर्म । लक्ष्मणमित्यकथितं कर्म । याचमानः प्रार्थयमानः । शिवं कल्याणम् ।
अर्थात् सीतायाः शिवं प्रधानं कर्म सुरान् देवान् इत्यकथितं कर्म । भ्राता लक्ष्मणः
सर्वं यथावत् स्थितं ब्रूते स्म उक्तवान् । सर्वमिति प्रधानं कर्म राममित्यकथितम् ॥
 
१–'५९७ । समानोदर्य सोदर्य - सगर्थ्य - सहजाः समाः । इति ना० अ०
२–१३५४ । निलयाऽपचयौ क्षयौ ।" इति ना० अ० ।
 
३ ~ दुहू-याच्-पच्–दण्डू - रुधि- प्रच्छि-चि-चू-शासु - चि - मथु-भुषाम् । कर्म युक् स्याद
-कथितं तथा स्यान् नी - हृ कृष चहाम् ॥ १ #